________________
१८३
१७८-१९०]
सप्तम उत्साहः हस्तिशाला मन्दुराश्चाभितो जयनशालिनाम् । पदातीनां निवासास्तु कटकावेष्टतः कृताः ॥१७८ गव्यूतान् परतो राजसैन्यमावार्य सर्वतः । चतुरङ्गचमू युक्ताः सामन्ता अवतस्थिरे ॥१७९ आसन्नानां वण्ठकलिर्मा भूत् तेषां दवीयसाम् ।। राट्कार्येषु विलम्बश्च तत्क्रोशात् परतः स्थितिः ॥१८० नियोगिनां च सर्वेषामाढ्यानां वणिजामपि । राट्सौधसविधे दत्ता आवासाः पत्तिरक्षिताः ॥१८१ वारनारीगृहा राजसौधात् तिर्यक् समन्ततः ।। आलीमुखे सिंहद्वारासन्ने सज्जाः पदातयः ॥१८२ गाणिक्यं तत्र माणिक्याभरणैर्दिङ्मुखानि च । विकासयन् विचचार नानाकामिमुखानि च ॥१८३ ततः सुवर्णहट्टाश्च रत्नदूष्यापणास्ततः । घृततैलतङ्गडान्नहट्टाश्चर्मकृतस्ततः
॥१८४ रजका धावकाश्चापि राजद्वाराग्रतः क्रमात् ।।
सुगन्धताम्बूलपूगप्रसवहट्टिकाः ॥१८५ तिर्यगाल्यां दौष्यिकान्ते कांस्यकृद् गान्धिकास्तथा । कणाट्टपार्श्वतो न्यूषुर्नेकै कांदविका अपि ॥१८६ स्थानान्तरेषु परितो भ्राम्यन्त्यारक्षपूरुषाः । . अज्ञातजनसञ्चारं वारयन्तः समन्ततः ॥१८७ गायन्ति पाना वाद्यन्ते मृदङ्गपटहादयः । पठन्ति भट्टथट्टाश्च प्रतिसामन्तमन्दिरम् ॥१८८ एवं स्वदेशसीमायामावासे वासवश्रियः । तस्य राज्ञो व्यतिजग्मुदिनाः कत्यपि लीलया ॥१८९ इतश्च - श्रुत्वा सीम्नि तमायातं प्रयासेन महीयसा ।
तां तुङ्गशृङ्गिणी सिन्धुं तीर्खा दर्पातितुन्दिलः ॥१९० १८६.१. तिथंगाल्यां.
ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org