________________
लीलावतीसारे
[१४०-१५२ किञ्च किञ्चिन्नीतिमेतां ग्रामीणा अपि जानते । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥१४० अपि च - मामपि प्रति यैः कैश्चिदुत्पदैः शरभायितम् । मम प्रतापप्रदीपे रलै(?)स्तैः शलमायितम् ॥१४१ तदिमां देहि दुर्ग वा मित्रं वा किञ्चनाश्रय । न तृतीया गतिस्तेऽस्ति रुष्टे विमलवाहने ॥१४२ इति राज्ञा स संदिष्टः प्रविष्टस्तत्पुरं क्रमात् । दूतोऽब्रूत यथादिष्टं शुभकरमहीभुजः ॥१४३ ततः स्मित्वा लीलयोचे दूतं जयशुभङ्करः । अद्य रे कातरे तत्र वाक़साहसमिद कुतः ॥१४४ निरर्गलप्रतोल्यास्य दूतदूत्येन वर्मितः । यदृच्छयेति वदितुं वावदूक तवोचितम् ॥१४५ तद् याहि तं विटं ब्रूहि कुर्याः कार्येण भाषितम् । निर्जलाम्बुदवन् मैव विधाः खटखटारवम् ॥१४६ यतः - किं राजजल्पितं नीच प्रतिपन्न खरस्वर । आदावेव गरीयांसि(१) तनीयांसि(?) ततः क्रमात् ॥१४७ इत्युक्त्वा व्यसृजद् दूतमावत् सामन्तमन्त्रिणः ।। राजाऽबत च भो भोः स दुराचारो निकटयभूत् ॥१४८ ब्रूते दूतेनैवमेवं तत् सज्जीभवत द्रुतम् । येनासौ कर्ममलिनो नैवाक्रामति नोऽवनिम् ॥१४९ ततः सामर्षमाचष्ट सामन्तो जयशासनः । क्व मृगारिः क्व च मृगः क्वोरगारिः क्व चोरगः ॥१५० धर्माध्वगामी क्व स्वामी क्व चासौ पापजाचिकः । तदादिश दिशाम्यस्य दक्षिणेशनिकेतनम् ॥१५१॥ युग्मम् दुर्गराजोऽथाभ्यधत्तास्मद्भाग्यादेत्यसौ पशुः ।
अमुना स्वक्रोधरुद्रं क्षणाद् देव यजामहे ॥१५२ १४०.१. किंचन्नी'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org