________________
१८१
१५३-१६५]
सप्तम उत्साहः यशोराजो जगादाथ देशे नो विशतु द्विषन् । जयसेनो मम भ्राता सम्मुखोऽस्य भविष्यति ॥१५३ नद्याश्च परतः स्थास्याम्यस्मि यास्यत्यरिः क्व तत् ।। प्राप्तं द्वारेऽथ दैवज्ञ वेत्री राज्ञे न्यवेदयत् ॥१५४ नृपाज्ञया प्रविष्टोऽसौ निविष्टश्च वरासने । राज्ञा पृष्टः क्व ते ज्ञानं सोऽवग ज्योतिनिमित्तयोः ॥१५५ राजाऽऽख्यत् तर्हि वीक्षस्व विपक्षजयितां मम । जगौ समरसिंहोऽथ देव पृच्छयमिहास्ति किम् ॥१५६ मृगेण जरता साधं संप्रलग्ने रणे हरेः । संशय्यते किं विजयो यदेवं पृच्छयते प्रभो ॥१५७ भूपेनाभिदधे सौम्य श्रयतां तत्त्वमुच्यते । विजयो मृत्युरथवा युधि साहसिनां ध्रुवम् ॥१५८ तथाऽपि पृच्छयते विज्ञो भावोऽस्त्येषोऽपि धिग विधेः । बलिनोऽपि विजीयन्ते जयन्त्यल्पदला अपि ॥१५९ ज्ञातस्वरूपैस्तद्रूपैः संस्थाप्यान्यं महीपतिम् । गम्यं युधीति देवज्ञो विज्ञैः पर्यनुयुज्यते ॥१६० ततो नैमित्तिकः प्राह प्रश्नोऽभून् मेषलग्नके । तत्र ग्रहस्थिति सम्यग निशामय विशांपते ॥१६१ मिथुने रविसूः कर्के गुरुः सिंहे च चन्द्रमाः । तुले बुधो मङ्गलश्च वृश्चिके शुक्रभास्करौ ॥१६२ प्रश्नलग्नानुसारेण विजयः स्वामिनो ध्रुवम् . राजाऽऽख्यच्छासनदेव्या धाम्ना जैत्राः सदाऽऽर्हताः ॥१६३ तथाऽपि पृच्छयसे विद्वन् दिग्यात्रासिद्धिकृद्दिनम् । उपयुज्य विचार्याशु राज्ञो नैमित्तिकोऽभ्यधात् ॥१६४ देवात्रैव मार्गकृष्णत्रयोदश्यां बृहस्पतौ । मैत्रभे वृश्चिकेन्दौ च तुलालग्नमभीष्टकृत् ॥१६५
१६५.४. तुल'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org