________________
१२६-१३९]
सप्तम उत्साहः तस्या अर्वाक् कोशमात्रे स्कन्धावारं निवेश्य सः । आस्थानेऽस्थान् महीमेघवाहनोऽमलवाहनः ॥१२६ ऊचे च भो भोः सामन्ताः सुभटाः प्रकटौजसः । जेयो महाबलः शूरो राजा जयशुभङ्करः ॥१२७ तद् यो भीरू रणभरात् सोऽत एवैतु मन्दिरम् । निर्भङ्गवीरा धीराश्च सहायान्तु मया रणे ॥१२८ अकार्ये ऽत्यसमानेन बुद्ध्वा युद्धमुपस्थितम् । न कोऽपि किञ्चिदाचष्टाचप्ट मन्त्री पुनः स तु ॥१२९ वाहिनीयमसङ्ख्या ते वाहिनीयं च दुस्तरा ।। न नाव्या परिभाव्या तत् क्वाप्यस्यां पादवर्तनी ॥१३० सद्यो नद्योघपार्श्वन ततोऽश्वीयेन भूपतिः । दूरं जगाम दृष्ट्वा च पादवमक्षयन्नरैः ॥१३१ ततो निवृत्त्य शिबिरे स्वावासे भुज्यनन्तरम् । दूतं सत्याभिधापूतं स भूमीपतिरादिशत् ॥१३२ अरे तत्र पुरे गत्वा मदिरा तं नराधिपम् । शक्तिकल्लोलिनीसिक्तां नीत्युक्तिमिति पाठय ॥१३३ स्वप्रातिभप्रदीपेन विदिता शेषनीतयः ।। संवादायैव सेवन्ते मन्त्रिमन्त्रमिहोत्तमाः ॥१३४ मध्यमास्तु मन्त्रिमुखा राज्यमज्यानि भुञ्जते । अधमास्तु द्वयीशून्या शून्यां कुर्वन्ति मेदिनीम् ॥१३५ तदज्ञमन्त्रिविकल कलयान्यनिवेदितम् । स्त्रीमात्रोपदया मह्यं मह्यां स्या अकुतोभयः ॥१३६ सूर्योऽर्घाञ्जलिना शंभुर्भस्मना दशया शशी । स्त्रिया प्रसीदन्नस्म्येष न महा! महामते ॥१३७ तदिमां प्राभतीकृत्य कृतकृत्यीभव द्रुतम् । मम प्रसादप्रासादं प्राप्य क्रीड च निर्भरम् ॥१३८ इमां मे दास्यसि न चेत् तत् सर्वस्वं प्रदास्यसि । यदि वा लज्जसे मह्य योषिन्मात्रप्रदानतः ॥१३९
१३६.४. मह्या.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org