SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १७८ लीलावतीसारे [११४-१२५ छायया तव वंशस्य भूभृतोऽत्युन्नता अपि ।। सश्रीकाः स्युरपरथा विच्छायत्वं भजन्ति ते ॥११४ तत् परदारसङ्गेन किं तच्छायां विलुम्पसि । स्वामिस्तदयमुद्योगो न शुभेन फलेग्रहिः ॥११५ न यदत्र परत्रापि परदाराभिलाषिता । प्रशस्यते विपश्चिद् भिस्तदस्या विरम प्रभो ॥११६ इत्युदित्वाऽविसंवादिसचिवे मौनमास्थिते । साहकाररुषाटोपमूचे विमलवाहनः ॥११७ यत एव हि वंशो मेऽन्यवंशेभ्यः समुच्छितः । अत एव हि युज्यन्ते कान्ता मुक्ता इहैव हि ॥११८ किञ्च सन्त्येव मे गेहेऽप्यतिकल्पलताः प्रियाः । प्रियङ्गुलतया कार्य किं नु मेऽस्ति तदीयया ॥११९ परं दूतमुखेनैष एवमेवं यदब्रवीत् । तद्दोषस्यौषधं दातुमेवास्म्येवमुपक्रमे ॥१२० समर्थविग्रहेणैव व्यज्यते स्वभुजोऽर्जितम् ।। सैंहिकेयो विगृह्णाति पूर्णमेवेन्दुमादरात् ॥१२१ तदत्र यात्रारम्भे मां यः कश्चन निषेत्स्यति । कण्ठशोषात् परं किञ्चिन्न फलं तस्य सेत्स्यति ॥१२२ ततः प्रगे ततःस्थानादस्खलितैः प्रयाणकैः । क्रमात् तरङ्गिणी प्राप स राजा तुङ्गशङ्गिणीम् ॥१२३ याऽस्ताघा शुभसंयतेव जनतासन्तापसंहारिणी __या तारुण्यवतीव मञ्जुलकुचप्राग्भारसंधारिणी । या ग्रामीणसभेव सन्ततजडस्तोमावरुद्धान्तरा युद्धोर्वीव च याऽतिदुस्तरमहाकल्लोलमालाकुला ॥१२४ तीरोपान्तप्रतिष्ठान् बकुलविचकिलाशोकपुन्नागपूगां __ स्तालीहिन्तालशालांस्तिलककुरबकान् नालिकेरान् रसालान् । अत्युन्नम्रान् स्वकम्रानिव सुमनयनैः प्रेक्षमाणानभीक्ष्णं या चाश्लेष्टुं किलोच्छालितगगनतलालम्बिकल्लोलबाहुः ॥१२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy