SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ १७७ १०१-११३ ] सप्तम उत्साहः मन्त्रिवर्गेऽथ तूष्णीके चक्रे विजयवर्मणा । सामन्तेन परीहासकथा राट् प्रासदत तया ॥१०१ अथाविसंवादिनामा मन्त्री व्यज्ञापयन्नृपम् । वयं स्वामिकुलक्षेमकीर्तिकोशाधिकारिणः ॥१०२ तदस्माभिः स्वप्रतिभादृष्टं विज्ञप्यते प्रभोः ।। प्रभुणा चाप्रसादोऽत्रास्मासु कर्तुं न युज्यते ॥१०३ ततोऽब्रूत क्षितिपतिर्मन्त्रिन् ब्रह्मविशक्कितः । गच्छतां सुपथे राज्ञां हस्तदीपा हि मन्त्रिणः ॥१०४ अथाविसंवादिमन्त्री बभाषे योजिताञ्जलिः । राजनीतिरहो देवावधानेनावधार्यताम् ॥१०५ प्रभोऽन्तरारिषड्वर्गे दुर्धरो दुर्जयस्तथा । दुरन्तश्च स्मर एषोऽक्षषड्वर्गे मनो यथा ॥१०६ उक्तं च - . स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरताऽपि तनुं यस्य शम्भुना न हृतं बलम् ॥१०७ स चातिलब्धप्रसरो दुर्वारः शरवद् भृशम् । दूरं विनाशयत्येव गुणानीकमशेषतः ॥१०८ सोऽपदेऽन्यकलत्रादौ मन्येत मनसाऽपि चेत् । राजन् दशाननस्येव तदा न हि हितावहः ॥१०९ किञ्च कीर्ति कुलं लक्ष्मी पौरुषं विनयं नयम् ।। यद् वा सर्व दहत्येष परस्त्रीसङ्गमानलः ॥११० तव देवान्तः पुरेऽपि दिव्याः सन्ति पुरन्ध्रयः । प्रियङ्गुलतिकायां तु तदाधिक्यं न मन्महे ॥१११ विग्रहश्च समर्थन शब्दशास्त्रे प्रशस्यते । नीतिशास्त्रे पुनः स्वामिन् सर्वथाऽपि निषिध्यते ॥११२ अपि च - सकलोभितां मूर्थिन पादं विन्यस्य भूधव । तव वंशः समुदगादगाद् वृद्धिं च भूयसीम् ॥११३ Lila:-23 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy