________________
१७६ लीलावतीसारे
[९२-१०० नृपादेशाद् वेत्रिणाऽथ द्रुतमेष प्रवेशितः । दत्वाऽऽशिषं निविष्टश्च सत्कृत्याप्रच्छि भू भुजा ॥९२ विद्वन् किंविषयं ज्ञानं तव जागर्ति कीर्त्यताम् । सोऽब्रूतातीतादिवस्तु स्वैरं पृच्छतु भूपतिः ॥९३ राजाऽन्वयुक्त यात्रेयं किंफला मे भविष्यति । सूर्ये वीक्ष्याह देवास्ति लग्नं हि द्विस्वभावकम् ॥९४ तत्र मूर्ती रविसुतो राहुणा लत्तितं च तत् (१) । दृष्टं च रविभौमाभ्यां नवांशः क्रूरवीक्षितः ॥९५ निर्याति पवने प्रश्नः कृतो देवेन नो शुभः ।
अन्यच्च पठतु स्वामी किञ्चित् सद्यः स पेठिवान् ॥९६ 'विजओ मह होउ' ऊचे नैमित्तिकः पूर्वाचार्यादेशोऽयमुच्यतेभणियं तिउणं पणजुय पासट्ठियमीस सत्तहिं विहत्ते ।
सुन्निक्कतिन्निसेसे असोहणं सोहणं सेसे ॥ (१) देव सत्त अक्खरा पन्हे तिउणा इकवीसा जाया पणजुय त्ति छव्वीसा ।।
अम्हे सव्वे वि दस पासहिया मं मुत्तण नव ॥ (२) ते छन्वीसाए मेलिया पणतीसा सत्तहिं विहत्ते ।
सुन्नं चेव सेसं ता एवं पि न सोहणं ति ॥ (३)
ततश्च -
न शुभं सर्वथा स्वामिन् निमित्तमवलोक्यते । तद्यात्रेयं न सम्पत्त्यै विपत्त्यै केवलं प्रभोः ॥९७ रोषारुणाक्षो महिष इवाख्यन्नृपतिस्ततः । रे दुष्ट योग्यस्त्वमेव विपत्तेरित्यसभ्यवाक् ॥९८ किन्तु द्विजतया मुक्तो मुञ्च मे पाप दृक्पथम् । हनिष्यसेऽन्यथाऽवश्यं पुंव्याप्रैः पशुवत् क्षणात् ॥९९ निमित्तं पततान् मूर्ध्नि तवैवेतिप्रवादिभिः । राट्पुरुषैनिहत्यैष निरकाशि निमित्तवित् ॥१००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org