________________
७८-९१]
सण्तम उत्साहः असङ्ख्यकरितुरगनरानीकसमाकुल: उच्चस्तरस्यन्दनौघयानपात्रकरम्वितः प्लावयन् काश्यपीपीठं शेषकूमी च कुब्जयन् । बलोदधि प्रचचाल तदा वैमलवाहनः ॥७९॥ युग्मम् सर्वतोदिक् च राजन्यसैन्यसञ्जातयोजनम् । योजनं तद् बलं गत्वाऽवसच्छुद्धमहीतले ॥८० तत्र चास्थानमासीनो हृष्टसंतुष्टमानसः । उपेत्यामात्यवर्गेण विज्ञेन व्यज्ञपि प्रभुः ॥८१ तावन्नवोद्योगवार्ता प्रकाश्या कस्यचित् प्रभो । यावन्न शकुनं श्रेष्ठं गूढारम्भा हि सद्धियः ॥८२ सम्पन्ने शकुने श्रेष्ठे श्रेष्ठं तदभिषेणनम् । तदभावे तु देवेन स्वदेशो दृश्यतां मुदा ॥८३ अवोचत ततो राजा क्वास्ति शाकुनिकः सुधीः । जगदे देवगुरुणा मन्त्रिणाऽस्ति ममान्तिके ॥८४ राजादेशान् मन्त्रिहूतः सिद्धार्थो नृपमानमत् । राज्ञोक्तः शीघ्रमीक्षस्व शकुनं रिपुमर्दनम् ॥८५ विधिना सुमुहूर्तेऽथ तच्च तेन निरीक्षितम् । सर्वथाऽप्यशुभं वीक्ष्य नृपो व्यज्ञप्यतामुना ॥८६ देव पुण्यानुभावेन सर्व श्रेयो भविष्यति । शकुनं न पुनः श्रेष्ठं प्रभुर्जानात्यतः परम् ॥८७ सरोषमथ राजोचे मन्त्रिन् वेत्ति किमेष कः । किं वा जानन्ति तिर्यञ्चो वीक्ष्यन्ते येन तेऽपि च ॥८८ चित्तोत्साहो निरूप्यस्तु स चास्त्यनुपमो मम । ततः प्रभाते प्रस्थेयं न तु स्थेयं कथञ्चन ॥८९ अस्मिन्नवसरे द्वाःस्थो नृपमूचे सुमङ्गलः । देव नैमित्तिको द्वारि स्वामिपादान् दिदृक्षते ॥९० राजाद्राक्षीनमन्त्रिमुखं स ऊचे देव हूयताम् ।।
प्रष्टव्यः प्रस्तुतं स्वार्थ न हि दोषोऽत्र कश्चन ॥९१ ९०.१. द्वास्थो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org