________________
लीलावतीसारे
[६४-७७
सेवकानां वराकाणां स्वामिन्नजननिर्वरम् । ये तत्त्वमविमृश्यैव स्वाम्यादेशं दिशन्त्यहो ॥६४ कथं देव तव पुरो ब्रुवे सन्नीतिवर्जितम् । तथाऽपि क्षम्यतामागः सर्व सर्वसहाधिप ॥६५ देवैवमेवं त्वां ब्रूते राजा विमलवाहनः । दूत्यादकथ्यमप्याख्यां धिग दूत्यं पूत्यपावनम् ॥६६ तच्च सर्व सत्यदूताख्यातं श्रुत्वा स भूपतिः । सामर्षमभ्यधादेवं भक्त्या मुक्तोऽसि तं वदेः ॥६७ नराधमोऽसि विज्ञातो न जातो राजतस्ततः । ततस्त्वदुपरिक्रोधयोधोऽपि मम लज्जते ॥६८ अन्यच्च मुक्तो दयया मया सम्प्रति दुर्मते । मम बाणा वहन्ते न त्वय्येवं हि मलीमसे ॥६९ राज्यश्रियं तु भवतः समादास्येऽस्मि निश्चितम् । तद्याहि दूरतः क्वापि यदि जीवितुमिच्छसि ॥७० यदि वा - राजनीतिपथाद् भ्रष्टस्त्याज्यो राज्यश्रिया स्वयम् । अपराधादतः शीर्षच्छेद्य एव हि वर्तसे ॥७१ तथाऽपि कृपया दत्तः षण्मासा अवधिस्तव । जलदुर्ग स्थलदुर्ग भजेथास्त्वन्यथा मृतः ॥७२ इत्यूजितं वचः श्रुत्वा दूतः स्यूतास्यतामिव । प्राप्तः प्राप्तः स्वपुरे च स्वप्रभोस्तदचीकथत् ॥७३ तेन दूतोपनीतेन वचसा जातवेदसा ।। प्रजज्वालोच्छलदुर्वागज्वालो विमलवाहनः ॥७४ ततोऽनवेक्ष्य नृपतिनीति भीतिं च दुर्गतेः । नरान्तरमनापृच्छयाविमृश्य स्वपरान्तरम् ॥७५ क्रोधाहकारशिखरिशिखरारोहगौरवात् । प्रयाणकमहाढक्कामसौ तं प्रत्यवीवदत् ॥७६॥ युग्मम् ततः सामन्तसैन्यानि मिलन्ति स्म महीतले । महाजलदवृन्दानि प्रावृषीव नभस्तले ॥७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org