SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १७० लीलावतीसारे [१२-२३ दुर्दान्तैरिन्द्रियहयैर्बलादुन्मार्गगामिभिः क्षिप्यते दुर्गतिमहारण्ये जन्तुरनेकशः ॥१२ आसतामन्येन्द्रियाणि स्पर्शनेन्द्रियमेककम् । निबिडं कर्म बध्नाति दुर्गदुर्गतिकार्मणम् ॥१३ तथा हि - अभ्यङ्गं शतपाकाद्यैरुद्वर्त कुङ्कुमादिभिः । कालानुरूपवाःस्नानं काषाय्या चाङ्गमार्जनम् ॥१४ विलेपनमलङ्कारं पुप्पदाम यथाऋतु । मृदंशुकासनशय्या मृद्वङ्गीपरिरम्भणम् ॥१५ स्पर्शनेन्द्रियवश्योऽयमात्मा प्रार्थयतेऽनिशम् । तत्साधननिमित्तं चारम्भानारभते बहून् ॥१६॥ त्रिभिर्विशेषकम् तथा हि - हलगन्त्रीखेटनादि नृपसेवापणादि च । उष्ट्राश्वेभविक्रयादि मित्रबन्धुवधादि च ॥१७ । परयोषामुरागेण रौद्रार्ताध्यवसायतः । घोरं रणं च कुरुते म्रियते चाजितेन्द्रियः ॥१८॥ युग्मम् आत्मन्यारोप्य दुष्कर्मभारं दुःखाम्बुवारिधौ । नरके विवशो याति न पाति स्पर्शनेन्द्रियम् ॥१९ तत्रातिदुःसहं दुःखं सोढ्वाऽसङ्ख्यमनेहसम् । ततः कथञ्चिदुवृत्तः कुतिर्यनृषु जायते ॥२० प्राग्वत् त्वगिन्द्रियाधीनस्तत्रापि तदभीष्टयुक् । प्राप्नोत्यशर्मलहरीदृष्टान्तोऽत्रभवान् नृपः ॥२१ राज्ञा व्यज्ञापि शुश्रूषे स्वप्राग्वृत्तं प्रभोर्मुखात् । भगवानाह राजेन्द्र श्रूयतामवधानतः ॥२२ अस्ति जम्बू द्वीपपुरलवणाम्भोधिखातिकाम् । परितो धातकीखण्डद्वीपस्तबाटिकोपमः ॥२३ २१.३. लहरीदृष्टान्तो. २३.३. पारितो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy