________________
सप्तम उत्साहः
अथ द्वितीयेऽह्नि पुनः सुधर्मा गणभृद्वरः । श्रीविजयसेनराजमुख्यानेवमुपादिशत् ॥१ क्रोधहिंसादिद्वन्द्वानां स्वरूपादिप्रकीर्तितम् । तदग्रतश्वराणां तु हृषीकाणामथोच्यते ॥२ ततः क्रोधाद्युपादानपञ्चास्रवनिबन्धनम् । भवदुःखं रामदेवादीनामाकर्ण्य राड् जगौ ॥३ भगवंश्चतुर्भविकः संसारोऽयमुदीरितः । कषायमूल एतेषां संशयस्तदुनोति माम् ॥४ तथा हि - प्राक् किमेषां न संसारः किं वा नासन्नमी पुरा । क्रोधादिहेतुः संसारश्चतुर्भविक , एव वा ॥५ इति संशयवात्याभिर्बाध्यते मे मतेलता । अथाह भगवान् राजन् जिनागमरहः शणु ॥६॥ युग्मम् अनादिनिधनो जीवः कषायाद्या अनादयः । तन्निदानश्च संसारोऽनादिरेव विबुध्यताम् ॥७ चतुर्भविकसंसारकीर्तनं तु दिगेव हि । यतोऽनादिभवश्रेणी वक्तुं नेशोऽपि सर्ववित् ॥८ भवान्तराणामपि हि रीतिरेषैव बुध्यताम् । निःसंशयोऽथ राजाऽऽख्यात् प्रभो प्रस्तुतमादिश ॥९ भगवान् भाद्रपाथोदसोदरध्वनिडम्बरः । स्वयंवरः संयमद्धैर्जगाद श्रयतामिति ॥१० आस्रवाः स्युः कषायेभ्यस्ते चेन्द्रियनिबन्धनाः ।
तदिन्द्रियाणि राजेन्द्र सर्वानर्थमहाकराः ॥११ ६.२. मतिलता. Lila.-22
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org