________________
१६८ लीलावतीसारे
[५१७-५२२ ततो गृह्णीत गृह्णीत पापान् हत हतेति च । राजाऽत्याकुलमाचष्ट कोऽपि नाचेष्टत क्वचित् ॥५१७ सर्व विनष्टं विज्ञाय हयमारुह्य दुष्टधीः ।। नष्टवान् कनकरथः स पत्ररथवेगतः ॥५१८ स तु पद्मरथो राजा सामन्तैासि पञ्जरे ।
सिंहासने नरेन्द्रस्य सद्योऽध्यास्यरिकेसरी ॥५१९ स च भ्रान्त्वा प्रतिपदमिदं भूमिवलयं
___ लयं न क्वाप्याधाच्चकितचकितः पुण्यरहितः । यदन्यस्मिश्चिन्तास्पदमरचयत् तत्तु स परि
ग्रहग्रस्तो लोभग्रहविनटितः प्रापदभितः ॥५२० विजयसेनमहीतिलकैपकः सपदि पद्मरथक्षितिपाङ्गजः ।
अशरणः शरणं प्रतिपन्नवान् सद इदं तदिदं परिभावय ॥५२१ श्रुत्वेदं भववृत्तमात्मघटितं तीव्रानुतापौजसा
जातस्मृत्युदयाद् दयां कुरु गुरो निस्तारयेति ब्रुवन् । राज्ञाऽसृष्ट महोत्सवः स कनकः श्रीमत्सुधर्मान्तिके
साम्यभ्राजिनमद्भुतं व्रतमधाच्चित्राऽऽत्मनां ही गतिः ॥५२२
इति श्रीनिर्वाणलीलावतीमहाकथेतिवृत्तोद्धारे लीलावतीसारे जिनाके लोभपरिग्रहश्रीमिथुनस्वरूप-च्यावर्णनो नाम षष्ठ उत्साहः * ॥
* ग्रं० ५३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org