________________
५०३-५१६]
षष्ठ उत्साहः
जयश्रीचूतमजोर्वाचां वाचामपि प्रभुः । विसंवादापवाद तन्नापादयितुमीश्वरः ॥५०३ ततश्च - मिथो मन्त्रोपदेशेन संवादाच्च समन्ततः । शिष्योपाध्यायता जज्ञे मिथः सामन्तयोस्तयोः ॥५०४ अथ किं कार्यमित्युक्ते देवराजेन सोऽभणत् ।। त्वद्विचारे पूर्यते यदेवराजस्ततोऽब्रवीत् ॥५०५ यथाऽस्म्यागां त्वत्समीपे मनोमेलश्च नौ यथा । तथा समस्तैः सामन्तैः क्रियते मेलको दृढः ॥५०६ निबध्यते दृढो ग्रन्थिमन्त्रिणां भेद्यते रहः । उपजीव्यते तद्बुद्धिः सिद्धिः स्तादीप्सितश्रियः ॥५०७ ततः श्रीविजयसेनराजस्तैरखिलं कृतम् । जज्ञे दृढश्चित्तबन्धः सर्वसामन्तमन्त्रिणाम् ॥५०८ ततः सुबुद्धिसचिवस्तैराहूय न्यगद्यत । दूरे कथञ्चित् प्रेष्यन्तां पालकाख्या भटा द्रुतम् ॥५०९ यतोऽमी बलिनो राजप्रसादाद्वैतशालिनः । आसन्नेषु ततस्तेषु न सिध्यति मनीषितम् ॥५१० दूरं गतेष्वेषु भूपं सपुत्रं न्यस्य पञ्जरे । क्रियते राजभ्रातृव्यः सुखाद् भूपोऽरिकेशरी ॥५११ सुबुद्धिरथ राजानमाचरव्यौ श्रयते प्रभो । सिंहः सीमान्तजनतामुपद्रवति दुर्धरः ॥५१२ तं निग्रहीतुं बलिनः पालकान् प्रहिणु प्रभो । तद्गूढमन्त्राविदुरः सद्यस्तान् प्राहिणोन्नृपः ॥५१३ दूरगेषु पालकेषु तैः सामन्तैः समन्ततः । हस्तिशाला हयशालाः कोशा रुरुधिरे क्षणात् ॥५१४ ततः कोलाहलो जज्ञे प्रलयाम्भोदगर्जिवत् । किमेतदिति राज्ञोक्ते लोकोऽब्रूत शृणु प्रभो ॥५१५ राज्ये निवेशयाञ्चक्रे सामन्तैररिकेसरी । हस्तिशाला हयशालाः कोशा जगृहिरेऽभितः ॥५१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org