________________
लीलावतीसारे
[४८९-५०२ इति सागरदत्ताख्यं स स्वमित्रमवार्तयत् । सुहृदे स्वरहस्यं हि जनैः प्रायः प्रकाश्यते ॥४८९।। युग्मम् मम सूनोर्दुर्गरवेः प्रेमपात्रं विलासिनी । वसन्तश्रीनृपकुलरहोवार्तामचीकथत् ॥४९० अद्य शय्यामाङ्गलिक्यं राज्ञः कृत्वा निवृत्त्य च । यावद् द्वाःस्थेनालपामि शय्यां तावन्नृपोऽश्रयत् ॥४९१ श्रीकुमारश्च देवी च तत्रासीनौ यथोचितम् । कुमारो व्याहरलोभपरिग्रहखनिनुपम् ।।४९२ देवारोप्य किमप्यागो ग्रामानादत्स्व मन्त्रिणाम् । उचितं दण्डमादाय देयास्तेषाममी पुनः ॥४९३ पौनःपुन्येनेति तेषां सर्वस्वमपि संहर । वणिजः शुल्कादिदोषारोपाद् दण्ड्या मुहुर्मुहुः ॥४९४ सामन्तान् ब्रूहि भो नित्यसेवया वो महान् व्ययः । तत् स्वदेशे यात कार्ये व्याहृता द्रुतमेत च ॥४९५ ततोऽमी नित्यपार्श्वस्थाः कदाऽप्युन्मार्गगामिनः । सन्निपातकृतो देव दुश्चिकित्स्यास्त्रिधातुवत् ।।४९६ एकैकशस्तु हूतानां कञ्चिदारोप्य दुर्नयम् । हस्त्यश्वकोशापहारात् तेषां स्यान्निग्रहः सुखात् ॥४९७ इत्यन्त ल्पतस्तस्य दुर्गादित्यस्य भाषितम् । निशम्य सम्यग जयश्रीः स्पष्टमाचष्ट मे पुरः ॥४९८ जयश्रीप्रोक्तराजादिरहोमन्त्रमशेषतः । पाठितो वत्सराजेन देवराजोऽपि तं जगौ ॥४९९ राज्ञश्चमरधारिण्या मम प्रणयबद्धया । जगदे चूतमञ्जर्या राजमन्त्रोऽयमीदृशः ॥५०० परं तद्वाचि सन्देहादेवमेवं मयौच्यत । राट्सौधे राज्ञानालापाज्जज्ञे सत्यं तु तद्द्वचः ॥५०१ किञ्च - सभोत्थाने परीहासचस्तरी भू भुजाऽसृजम् । वाचं वाचंयम इव न तत्राप्याददे प्रभुः ॥५०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org