SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १६५ ४७६-४८८] षष्ठ उत्साहः परीक्षितुं मेऽथ भावं संदिष्टा भू भुजेत्यसौ । तथाऽपि मेऽस्यां गाम्भीर्ये गुणो दोषोऽन्यथा पुनः ॥४७६ यतः - मायावर्तदुरन्तानां योषितां सरितामिव । विश्रब्धो मुग्धकोऽवश्यं विनश्यति विनश्यति ॥४७७ ततोऽवहित्थामास्थाय सामन्तोऽब्रूत तां प्रति । राज्यस्तम्भः कुमारोऽस्मज्जीवितेनापि जीवतात् ॥४७८ तदर्थे जीवितमपि ह्यस्माकमुपयोक्ष्यते । यत् तु कोशाश्वेभमुख्य विकल्पोऽप्यत्र नास्ति नः ।।४७९ इत्यतुच्छमसावुक्त्वा प्रमुग्धा एतया सह । प्रातर्मितपरीवारो भूपं राजकुलेऽनमत् ॥४८० राज्ञा नाभाष्यसौ प्राग्वन्नान्ये सामन्तमन्त्रिणः । ततो मेने देवराजः सत्योक्ति चूतमञ्जरीम् ।।४८१ बहूत्थिते नृपास्थाने परिहासरसोर्मिभिः । तदुपज्ञैर्नेव राज्ञः परिहासो व्यबोध्यत ॥४८२ उत्थाय देवराजोऽगात् स्वावासे भुज्यनन्तरम् । गत्वा वासे वत्सराजसामन्तस्याब्रवीदिति ॥४८३ पाणिग्रहमाङ्गलिक्यं श्रीकुमारस्य युज्यते । द्वौ द्वौ गजौ तुरङ्गाश्च वस्त्रालङ्करणानि च ॥४८४ सोऽवदत् सैष नः सर्व जिघक्षुः स्वयमेव भोः । सभयं कथमित्युक्ते देवराजेन सोऽभ्यधात् ॥४८५ जयश्रीवल्लभा मेऽस्ति सा दुर्गदेवश्रेष्ठिनः । पत्न्या लक्ष्म्या सखीति स्वगृहे भोक्तुं न्यमन्त्र्यत ॥४८६ भुजाना पदृशालायामेषाऽपवरकाग्रतः । वार्ताः प्रावर्तयलक्ष्म्या साधं प्रेमसुधोमिवत् ।।४८७ इतश्चापवरकस्थो दुर्गदेवो व्यचिन्तयत् । वार्ताप्रसक्ता जयश्रीन मे श्रोष्यति भाषितम् ॥४८८ ४८६.१. जगश्रीव.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy