________________
१६४
लीलावतीसारे
[४६४-४७५
यतः - कोशादिबलसम्पूर्णा मिथोमेलकदुर्ग्रहाः । सामन्ता न नरेन्द्रस्य वश्याः स्युर्भुजगा इव ॥४६४ तथाअतिप्रसादो धीश्लाघाऽपराधसहनं तथा । मन्त्रिणामपि चोन्मादहेतुर्नेतुर्हिताय न ॥४६५ इदमेवं शुभ कार्यमित्युक्तेऽपि हि मन्त्रिभिः । तदुत्कर्षापकर्षाय विचार्य स्वयमञ्जसा ॥४६६ नैवमेतच्छुभं कार्य किं त्वेवमिति भू भुजा । किञ्चिद् विशिष्य वा सर्व स्वोपज्ञमिव दर्श्यते ॥४६७॥ युग्मम् किञ्च - परिहार्य परीहासः सह सामन्तमन्त्रिभिः । अन्यथा संघर्षतोऽभी आज्ञां लचेयुरीशितुः ॥४६८ इत्युक्ते सू नुना प्राणप्रियपुत्रोऽवदन्नृपः । वत्सोचितं त्वमाधत्स्व श्रयिष्येऽन्तःपुरं त्वहम् ॥४६९ पुत्रोऽवोचत् तात राज्यफलं विषयमाननम् । तदित्थमेव न पुना राज्यचिन्तार्दितात्मनाम् ॥४७० ततः पद्मावती देव्या व्याजहू देव धीनिधे । न कुमारोक्तमित्येव कार्य किन्तु विवेचितम् ॥४७१ राजाऽऽख्यद् देवि पुत्रोक्तं बालाग्रमपि नान्यथा । स्मित्वाऽऽह देवी देवस्याङ्गभूर्वक्त्वन्यथा कथम् ॥४७२ मया तु देवपादानामनुरोधान्यगद्यत ।। एतच्च चूतमञ्जर्याऽश्रावि नेदिष्ठयाऽखिलम् ॥४७३ सा चानुरक्ता सामन्ते देवराजे यथा सची । ततोऽसौ तस्य रहसि तन्निःशेषमचीकथत् ॥४७४ सोऽथ दंध्यावियं तेषामुल्लापान् वारिताऽपि चेत् । वक्ति मे तदसौ मत्कानथैर्यात् (?) तेषु वक्ष्यति ॥४७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org