SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ४५२-४६३] षष्ठ उत्साहः १६३ यतः - परचक्रागमे देव गृहाणि दर्शनानि च ।। विलुप्यन्तेऽथ दह्यन्ति तद्धी वैरिवारणम् ॥४५२ न वैरिवारणे शक्तो नृपः स्याद् बलवर्जितः । न च कोशविहीनस्य राज्ञः स्यात् पुष्कलं बलम् ॥४५३ कोशश्च शुल्कमात्रेण कियान् स्याद् देव भू भुजाम् । तत् प्रजार्थग्रहेणाऽपि तद्रक्षा धर्म एव हि ॥४५४ विमुच्य जीविकामानं शेषस्यापहृतावपि । देव किञ्चिद्धनेनापि प्रजा जीवन्ति सर्वतः ॥४५५ यच्चादिष्टं देवपादैर्नेदं नः पूर्वजैः कृतम् । तैश्चाकृतं करिष्यामि कथं वत्सास्मि सम्प्रति ॥४५६ तत्राप्रसादः कर्तव्यो न मे देवेन जल्पतः । तेनैव ते पूर्वजा नः स्तोकलोकाधिपाः खलु ॥४५७ किञ्च - दानेन धर्मः कीर्तिश्च दानं चार्थ विना कथम् । शुल्कागतं च ददतो राज्ञो जीवेद् बलं कथम् ॥४५८ अथ पद्मरथः प्राह वेत्सि वत्सोचितं स्फुटम् ।। स्वप्रजादण्डनीयेत्यक्षराणि न शृणोमि तु ॥४५९ यच्च ते सुविचारेण त्वायति प्रतिभासते ।। तत्र पुत्र पवित्रात्मन् प्रतिपन्थी भवामि न ॥४६० लब्धावतारः कुमारः पितरं व्याहरत् ततः । य एते तात सामन्ताः समन्तात् नित्यसेविनः ॥४६१ तेऽपि जीवादिशेत्युच्चै दिनोऽपि दुराशयाः । पारतन्व्यासुखोच्छित्त्यै देवपादापदैषिणः ॥४६२ तदमी कोशहस्त्यश्वापहारात् स्वस्वमण्डले । प्रेष्यन्तां संहता नैते शुभाः करमहा इव ॥४६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy