________________
लीलावतीसारे
[४३९-४५१ कथं मतिस्तस्य यस्य राज्ये लक्ष्मीमदालसाः । कोटीध्वजानुच्छ्रयंते किराटा नरकीटकाः ॥४३९ विजिगीषुः स एवेह - विपक्षक्षपणक्षमाः । यस्य प्रजाः श्रीमदेन न माद्यन्ति निरङ्कुशाः ॥४४० प्रजानां तावदेव स्वं युक्तं जीवन्ति यावता । शेषं तु नृपकोशस्थं विपक्षक्षोदकोविदम् ।।४४१ वणिजामपि या लक्ष्मीः साऽपि देवस्य नेक्ष्यते । देवपादा वणिजो वा राजानोऽत्रेति वेद्मि न ।।४४२ भाण्डागारसारमेषां तद् गृहीत्वा प्रभो कुरु । पुष्कलं तेन पादातप्रभृति प्रबलं बलम् ॥४४३ ततो दिग्यात्रयाऽश्वेभकोशान् क्षुद्रमहीभुजाम् । गृहाणैवं च महतामप्यशेषं ग्रहीष्यति ॥४४४ अथोद्यत्कोशो भूपीठं वण्ठीभूतारिमण्डलम् । नभस्तलं रविरिवैकस्त्वमुद्योतयिष्यसि ।।४४५ अतितीक्ष्णो बद्धमुष्टिनिस्त्रिंशो मलिनोऽपि च । अखण्डधारो यदसिस्तत् कोशस्य विजम्भितम् ।।४४६ ततोऽब्रूत सुतं भूपः पलिताङ्कुरकर्बुरम् । तिलतन्दुलितं श्मश्रुत्क्षिप्य दक्षिणपाणिना ।।४ ४७ इयच्चिरं मया वत्स नाक्षत्रमिति निर्ममे । अधुना किं कृते कार्यमकार्यमिदमीदृशम् ॥४४८ किञ्च - भूपः शरण्यः प्रजानां ताभ्यो द्रुह्यति चेदसौ । तच्चौरचरटादीनां तेनौपाध्यायकं दधे ॥४४९ अपि च - न नः केनापि पूर्वेण पुंसैतत् क्वापि निर्ममे । तदधर्मममुं कुयीं । कीर्तिधर्महरं कथम् ॥४५० अथाख्यत् कनकरथो धर्मः कार्यः सतां सदा । विज्ञप्यते मयाऽप्येवं देव तस्यैव वृद्धये ॥४५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org