________________
४२६-४३८] षष्ठ उत्साहः
१६१ क्षणेऽत्र क्षोणितिलको व्यज्ञप्यत पुरोधसा । मज्ज्यतां सज्ज्यतां देव देवार्चनमनुत्तरम् ॥४२६ ततस्तथाकृते राज्ञा सद्यः सूदो न्यवेदयत् । । देव भोजनवेलेति ततोऽसौ भुजिमण्डपे ॥४२७ कुमारामात्यसामन्तैः सह भुक्त्वा यथोचितम् । विलेपनायेः सम्मान्य सामन्तादीन् विसृष्टवान् ॥४२८॥ युग्मम् निर्जने चित्रशालायामथ पद्मरथो नृपः । शय्यामध्यास्त पद्मावत्यपि तत्रागमत् तदा ॥४२९ कुमारः कनकरथः सन्निधायाभ्यधात् ततः । विज्ञाप्सुरस्मि तच्चूतमञ्जरी प्रेष्यतां बहिः ॥४३० राजाऽऽचख्यावदोषेयं सदा चमरधारिणी । न रहस्यं भिनत्त्येषा देवो वेत्तीत्यवक् सुतः ॥४३१ देवैवं मे मनोराज्यं यदि ब्रह्माण्डमण्डपे । दिग्दन्तिदशनस्तम्भवलयैरचलाचले
॥४३२ सूर्याचन्द्रप्रदीपाभ्यां नित्योद्योततरङ्गिते । तारतारचक्रवालवालकैरतिमालिते
॥४३३ प्रतापकीर्ती देवस्य भूशक्रस्यात्मसम्भवे । स्वेच्छया दिवि जयन्तजयन्त्याविव दीव्यतः ॥४३४॥ त्रिभिर्विशेषकम् स्मित्वा स्माह महीचन्द्रः पुत्रपौरुषविस्मितः । वत्सातुच्छेच्छ को नाम तवेच्छाप्रतिबन्धकः ॥४३५ कुमारो व्याहरदेव यस्य कोशोऽम्बुराशिवत् । अक्षयः शश्वत् स्वाधीनः स्वाधीनं तस्य भूतलम् ॥४३६ स चाक्षयोऽखिलक्षोणिपाललक्ष्मीस्वयंग्रहात् । तद्ग्रहश्च चतुरङ्गचमूसम्पन्निबन्धनः ॥४३७ चतुरङ्गा चमूः स्वामिन् स्वाधीना दानशालिनः ।
दानं च कोशात् कोशश्च शेमुखीविमुखे कथम् ॥४३८ ४३३.४. 'मालते. Lila.--21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org