________________
Jain Education International
लीलावतीसारे
प्रतिहट्टं
प्रतिगृहं
प्रतिरथ्यं प्रतिप्रपम् ।
पश्यन् कुमारो विपणिवीथीं प्राप्तः प्रमोदतः ॥ ४१३
पुरं
पुरन्दरपुरसुषमापश्यतोहरम् ।
पश्यन् कुमारो विपणिवीथीं प्राप्तः प्रमोदतः ॥ ४१४ ॥ युग्मम्
तत्र च
रत्नपुजैः रत्नगिरेः खानीवद् रत्नहट्टिकां । स्वर्णेष्टकाभिः स्वर्णाट्टान् सोऽपश्यत् मेरुबन्धुवत् ॥ ४१५ मेने भाराग्रशो रूपये रूप्याट्टान् रूप्यशैलवत् । चन्दनैश्चन्दनोर्व्याः स सखीं चन्दनहट्टिकाम् ॥ ४१६ दन्तवा तैर्विन्ध्यबन्धूनिव दन्तापणास । तैस्तैर्दृष्यैर्देाप्यिकाट्टांस्तत्तत् खानीरमन्यत
॥४१७
टङ्कशाला मिवामंस्त सैष
प्रवालादिमणीहट्टान्
गन्धधूल्याद्यापणैश्च
४१९.४. "सीहिभा.
नाकहट्टिकाम् ।
रत्नाकरगृहानिव ॥ ४१८
धूलीशेषांस्तदाकरान् ।
सोऽज्ञासीद्धिमालयमनौषधिम् ॥४१९
गन्धिकाद्वैश्व
घृतोदावतरं सैष घृतहट्टिकाऽबुधत् । धान्यापणैश्च दुर्भिक्षं दुर्भिक्षं क्षोणिमण्डले ॥४२० नालिकेरपूगपूगैः कोकणद्धिं तदापणे । ताम्बूलिकविपण्यां स मेने तद्वाटिकागमम् ॥४२१
इत्येवं विपणिश्रेण्याः श्रियं विक्ष्य नरेन्द्रसूः । सामन्तामात्यवेश्मानि राजवेश्मवदैक्षत ||४२२
कोटीध्वज-ध्वजकोट्या
वितानितवितानकम् ।
स पुरं परितः पश्यन् दिवं तृणमजीगणत् ॥४२३ तदापण श्रीसामन्तावासकोटिध्वजेक्षणात् I लोभादित्से कुमारस्य हृदि प्राग्वदुदीयतुः ॥४२४ इत्थं भ्रान्त्वा पुरीं सवीं स कुमारो नरेश्वरः । वैजयन्तं वै जयन्तं स्वं प्रासादं समासदत् ॥ ४२५
४२५.४. प्रसादं.
[ ४१३-४२५
For Private & Personal Use Only
www.jainelibrary.org