________________
३९९-४१२]
षष्ठ उत्साहः नानावर्धापनैरेकाहवदेकादशाहके व्यतीयुषि द्वादशेऽह्नि महैरतिमहीयसि ॥३९९ . श्रीकनकरथ इति नाम दैवतमद्भुतम् । राजा संस्थापयाञ्चक्रे तत्र पुत्रे शुभौकसि ॥४०॥ युग्मम् क्रमात् प्रवर्धमानोऽसौ कलाग्रहणकर्मठः । विद्यानदीनदीशायोपाध्यायाय समाय॑त ॥४०१ सोऽनुक्रमात् तदभ्यासेऽभ्यस्यमानः कलाकलाः । बाल्याम्भोधेः कलाम्भोधेः पारदृश्वाऽभवत् समम् ॥४०२ ततो गुरुः सकुमारो गत्वा भूपं व्यजिज्ञपत् । कलासर्वस्वमेतस्य सरहस्य मयाऽlत ॥४०३ सुवर्णवस्त्रताम्बूलप्रभत्यस्मै प्रभूतशः । नृपः कृतज्ञो दत्वाऽप्यनृणंमन्यो बभूव न ॥४०४ गुरुणोद्वाहितं वीक्ष्य तं कुमारं कलाः किल । कलापात्राणि राट्कन्या भूपस्तेनोदवाहयत् ॥४०५ परिणीतः कुमारोऽद्य राजपाटी विधास्यति । उद्यद्यलोभा पू:शोभा सर्वतः कार्यतामिति ॥४०६ राजादिष्टप्रतीहारनरवाक्येन नागरैः । सद्यः स्वस्वगृहाट्टादौ शोभाऽदृष्टचरीकृता ॥४०७॥ युग्मम् शृङ्गारप्रस्फारितश्रीरत्यैरावणवारणः । विलेभे श्रीकुमाराय करीन्द्रो जयमङ्गलः ॥४०८ कुमारः सपरीवारः प्रस्फुरच्छत्रचामरः । तमध्यासामास रसाज्जयन्त इव नूतनः ॥४०९ शचीसचिवशकश्रीनृपः पद्मावतीसखः । जयकुञ्जरमारूढः कुमारस्यानुगोऽभवत् ॥४१० सामन्तामात्यसेनानीप्रतीहारादयस्ततः । हस्त्यश्वस्यन्दनासीना राजानमनुवबजुः ॥४११ पुरतः पार्श्वतः पृष्ठे सर्वेषां सर्वतोऽपि हि ।
पदातयोऽभवन्नानाशस्त्रभीषणपाणयः ॥४१२ ४०४.४. बभूव नः. ४१०.१. सची.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org