________________
१५८ लीलावतीसारे
[३८५-३९८ स्मित्वाऽथ मातुलोऽजल्पद् रससिद्धि प्रवेत्सि किम् । अभाणीद् भागिनेयोऽपि दृष्टस्तत्पुस्तको मया ॥३८५ मातुलोऽवग् रसो ज्योतिर्विद्या मन्त्रो जपस्तपः । न हि पुस्तकशिष्यस्य वत्स सिध्यन्ति कस्यचित् ॥३८६ तद, मतिकीर्त्यर्थधर्मभ्रंशनिबन्धनम् । रससिद्धिभ्रमं मुञ्च सिञ्च स्वाचारभूरुहम् ॥३८७ इत्थं निवारितोऽप्येष यावदुज्झति नाग्रहम् । तावत् तदंशं दत्वा तैर्वसुमित्रात् पृथकृतः ॥३८८ तैस्तै तैर्यायजूकैस्तत्तद्व्यसनपावके वसुनन्दो मन्दमतिः साक्चक्रे भस्मसाद् धनम् ॥३८९ केनापि योगिना साध लोभिना लोभनस्ततः । निधिलाभाय पर्याटीदसौ गिरिवणादिषु ॥३९० पलाशपोतकं क्वापि तौ च वीक्ष्य परीक्ष्य च । स्वाधीनशेवधिमन्यौ व्यधत्तामखिलं विधिम् ॥३९१ अधिज्यधन्वात्तवाऽऽणोऽभूद् योग्युत्तरसाधकः । । वसुनन्दस्तु खनकोऽभूच्चाध्यक्षः क्षणान्निधिः ॥३९२ विश्वस्तघाती योगी त गाढमाहत्य मर्मणि । निधि पापनिधि चोग्रं समादाय पलायत ॥३९३ वसुनन्दो मन्दभाग्यः पश्चात्तापप्रतप्तहृत् । रक्तासक्तकीटिकाभिश्चिलातीपुत्रवत् क्षतः ॥३९४ अशक्तः पदमुत्थातुं स्वनिन्दाल्पकषायवान् । विमध्यमगुणैर्बद्ध्वा मनुजायुर्व्यपद्यत ॥३९५॥ युग्मम् भारतेऽत्रैव पञ्चालेष्वस्ति काम्पील्यपत्तनम् । दिवौकसां पत्तनस्याप्रतिबिम्बं नु बिम्बकम् ॥३९६ तत्र पद्मरथो राजा सुरराजाग्रजः किल । तस्य पौलोम्यग्रजेव देवी पद्मावती बभौ ॥३९७ तस्याः कुक्षौ वसुनन्दजीवः पीवरभाग्यभाक् ।
सञ्चक्राम क्रमाज्जातस्तातस्य प्रतिबिम्बवत् ॥३९८ ३८९.१. 'धुर्ते'. ३९५.२. निंदाकल्प'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org