SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ३७१-३८४] षष्ठ उत्साहः साऽऽख्यत् तमुत्तराधस्ताद्देवान् पूजय भुंक्ष्व च । सोऽभाणीन्नोत्तरिष्यामि तयोक्तं केन हेतुना ॥३७१ श्रेष्ठयूचे धातुवादादिव्यसनात् स्वैरचारिणा । . विगुप्तोऽनेन पुत्रेण स्वास्यं नेक्षयितु क्षमे ॥३७२ सोऽथ तत्र स्थितोऽभुङ्क्त वर्ची वर्चीगृहे व्यधात् । न निर्यातिर्बहिर्जातु ययुरेव घना दिनाः ॥३७३ ततस्तद्बन्धुमित्राद्युपेयरुस्तन्निकेतनम् । ऊचुश्च वसुमित्रः किं निशीवायपि नेक्ष्यते ॥३७४ सुधवा व्याहरच्छ्रेष्ठी रहस्युपरि तिष्ठति । ततस्तया दर्यमानमार्गास्तेऽगुस्तदन्तिकम् ॥३७५ कदाचिन्नेक्ष्यसे श्रेष्ठिन् किमङ्गं तेऽङ्ग बाधते ।। सुधवाऽबत नास्याङ्गं बाधते बाधते सुतः ॥३७६ यतोऽसौ धातुवादादिव्यसनी स्वैरचार्यपि । तल्लज्जातो बहिनैति महापुरुष एष भोः ॥३७७ वक्ति चेति जनः पृच्छेच्चेत् त्वत्पुत्रः करोति किम् । प्रतिवच्मि तदा किं तद् गृहान्तमें स्थितिवरम् ॥३७८ वसुनन्दोऽथ तैस्तत्र बह्वाहूतः समागतः । मातुलेनाभाणि वत्स पित्रनिष्ठं करोषि किम् ॥३७९ भाग्नेयः स्माह किञ्चित् करोम्यस्म्युचितेतरत् । व्याजहारेतरः किं ते धातुवादादिना वद ॥३८० अर्थोपाये प्रवृत्तिः किं न कार्येत्याह यामिसूः । भाण्डक्रयादिः किं नार्थोपाय इत्याह मातुलः ॥३८१ स्वस्रीयः सस्मितं स्माह क्व मेरुः क्व च सर्षपः । जजल्प मातुलो लक्ष्मीः किं न धात्वाद्यकुर्वताम् ॥३८२ जामेयोऽवग् न तादृक्षा यादृक्षा रससिद्धितः ।। इतरः स्माह किं न श्री राज्ञां धात्वाद्यजानताम् ॥३८३ कुतपोऽब्रूत केयं श्रीर्धातुसिद्धिरसाग्रतः । वागडम्बरैः किं वा रसं नर्ते महर्द्धयः ॥३८४ ३८०.२. 'तेतरन् . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy