________________
Pes
Jain Education International
लीलावतीसारे
कुमारस्तेन गौरवात् ।
न्यवेश्यत नृपोत्सङ्गे साक्षात्कृत्य तमात्मानं मुमुदे योगिवन्नृपः ॥ ३५७
जगाद मुदितो राजा किमेतन् मित्र नाटकम् | देवावधानादवधार्यताम् ॥ ३५८ गृहनिर्गमनादिकम् ।
धनसूरवदद्
पितृवाक्यपरीक्षायै
श्रीकुमारापहारान्तं स्ववृत्तान्तं जगाद सः ॥३५९
[ ३५७ - ३७०
ततः ।
अथ पृथ्वीन्दुराचष्टात्रानयस्व स्वबान्धवान् । जगादैष दवीयस्त्वादेतुं देवात्र नेशते ॥३६० धनसूर तिनिर्बन्धादापृच्छय नृपति तद्दत्तवैभवः प्राप गृह वर्धापनं कृतम् ॥३६१ इति कथानकसिन्धुधवान्तरं समवगाह्य सदा वसुनन्द भोः । अधमसङ्गविषं त्यज दूरतः सततमुत्तमसङ्गसुधां पिब ॥३६२ तदेतद् व्यसनं हित्वा भुंक्ष्व भोगानुपस्थितान् । पुत्रेन्दौ दीव्यति स्फायेत् पित्रोरानन्दसागरः ॥ ३६३ पितुपर्यायतः प्राप्ता या लक्ष्मीस्तेऽस्ति तन्मितिम् । प्रवेद वेदगर्भोऽसौ यः प्रादान्नः प्रसेदिवान् ॥ ३६४ स्मित्वाऽथाह वसुनन्दस्तात कोऽप्रत्ययस्तव । महन्थकथिते धातुवादादिकर्मणि ॥३६५ किञ्च प्रवृत्तिः सत्पुंसां न स्वभोगाप्तिहेतवे । सूर्येन्दु भ्रम्यत इमौ किमु स्वार्थस्य सिद्धये ॥३६६ गण्या लक्ष्म्यर्जने क्लेश भोगभ्रंशादयो न च । भूसाधने प्रवर्तेरन्न हि चक्रयादयोऽन्यथा ॥ ३६७ तत् तात किमिदं वृद्धभावाविर्भावकं वचः । रुषा हुंकृत्य पित्रोक्तं यत् ते रुच्यं तदाचर ॥ ३६८ इत्युक्त्वोर्ध्व रहश्चित्रशालिकायां पिताऽगमत् । भुजक्षणे सुधयाऽप्रच्छि पुत्रः क्व ते पिता ॥ ३६९ पुत्र ऊचे नाम्ब जाने ततोऽधः सर्वतो गृहे । अन्विष्योपरि दृष्टोऽसौ तयान्तश्चित्रशालिकम् ॥३७०
For Private & Personal Use Only
www.jainelibrary.org