________________
३४३-३५६]
षष्ठ उत्साहः
मम्र कुमारस्तद्घातात् तेन पापेन पातकी । साधयाम्यग्निमधुनाऽनुजानीहि सुनाथ माम् ॥३४३ तयोमिथोविरुद्धोक्त्या राज्ञः श्वासः स्थिरोऽभवत् । कुमारसम्भावनया मनाक साधारितः किल ॥३४४ तत ऊचे नृपः श्रेष्ठिस्त्वत्तोऽस्याश्च न सर्वथा । वत्सस्यामङ्गलं ब्रहि तत्सत्यमभयं तव ॥३४५ श्रेष्ठी यशोवर्धनोऽथ कथं कथमपि प्रभोः । धनावहात् कुमारस्य विनाशं प्रत्यपादयत् ॥३४६ देवतेनागसा तस्य मृतिस्तन्मृतिरावयोः । तदस्मज्जीवितेनेष जीव्यादित्येवमौच्यत ॥३४७. राजोचे न विनष्टं मे किञ्चिद् येनाद्य शोधितम् । एकमामलकं तस्य द्वयमद्यापि धारये ॥३४८ तदवश्यं वयस्यं मेऽत्रानयस्वाकुतोऽभयम् । तदर्शनसुधावृष्ट्या मच्छरीरेऽस्तु निवृतिः ॥३४९ श्रेष्ठी गत्वाऽथ वेश्यायाः स्वस्य राज्ञश्च भाषितम् । सर्व निवेद्य धनजमाह्वयन्नृपमन्दिरे ॥३५० तदा च धनसूर्दध्यौ क्व वेश्या क्वेशी स्थितिः । फेटागिव मयं (?) कीदृक्कीगामलकान्नृपः ॥३५१ यद्वा - सज्जनश्चन्दनचन्द्रश्चन्द्रिका हिमवालुका ।। सर्वलोकहितायैव विहिताः पद्मसद्मना ॥३५२ अणुनाऽप्युपकारेणोपकारं गिरिसोदरम् । ये लीलयाऽपि दधते तेभ्यः सद्भ्यो नमो नमः ॥३५३ " अणुनाऽप्यपकारेणोपकारं मेरुसोदरम् । कृतघ्ना ये विनिघ्नन्ति तेभ्योऽसद्भ्योऽपि वै नमः ॥३५४ तदवश्यं पितृवचः परीणाममनोरमम् ।। तादृशामुदितं कल्पद्रुमाणामिव नाफलम् ॥३५५ मुहुर्मुहुर्मुशन्ने
विस्मयस्मेरमानसः । . ततो धात्री कुमारं चादाय तत्राययावसौ ॥३५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org