________________
लीलावतीसारे
[३२९-३४२
इतश्च - कुलाधारं स्वं कुमारं तमपश्यन्नितस्ततः । व्याकुलः प्रेक्षयामास सर्वतः स्व नरैर्नृपः ॥३२९ तदैव देवदत्ता सा स्वपरीवारभारिता । राजद्वारमुपैद् द्वाःस्थस्तां च राज्ञे न्यवेदयत् ॥३३० कल्पः: प्रजापालकानामेष इत्याकुलोऽप्यसौ । सद्यः प्रावेशयदिमां सा च व्यज्ञापयत् प्रभुम् ॥३३१ प्रभो मनोरथो मेऽभूत् पुत्रपौत्रादिवृद्धिभिः । स्वामी न्यग्रोधशाखीव व्याप्स्यत्याशा दशापि हि ॥३३२ निर्भाग्यचूलिकायास्तु सदने मे मदोन्मदः । कामुको दत्तवान् भाटी धाटीमिव मनोभुवः ॥३३३ कृतं च तत्कृते भक्त भोजनावसरे पुनः । धाव्यङ्कस्थकुमारोऽगाद् दुर्दैवान् मम मन्दिरे ॥३३४ मत्तेन तेन च क्षिप्तो गृहे प्रविशते शुने । लेष्टुर्लग्नः कुमारस्य स च हा कीर्तिशेप्यभूत् ॥३३५ महागस्कारिणी धात्री नष्टा क्वापि वराकिका ।। तदागसा तेन पापां मां कल्पय तिल तिलम् ॥३३६ तदाकर्ण्य नृपः सद्यः प्रादुःषदुःखशल्यितः । मुहुः कर्षन् श्मश्रु चिन्तास्रज यावत् सृजत्यलम् ॥३३७ तावद् यशोवर्धनोऽपि नृपदर्शनलोलुपः । प्रधानेन प्राभतेनोपतस्थे तं स्थिरापतिम् ॥३३८ प्रणम्य भूपतिमसावासामास यथोचिति ।। उदीर्यतां कार्यमिति राज्ञोक्ते श्रेप्ठ्यवोचत ॥३३९ दुर्दैवभग्नभाग्योऽस्मि प्रभो विज्ञपयामि किम् । तथाप्यनन्यगतिकः स्वामिनः स्वं निवेदये ॥३४० देव स्वगेहे गवाक्षे लीलयाऽद्य निषेदुषा । मया दृष्टो गृहद्वारि प्रविशन् भुण्डशूकरः ॥३४१ तद्वारणाय मुमुचे लीलायष्टिः प्रभो मया । सा च लग्ना तत्र दैवाद् धान्यङ्कस्थकुमारके ॥३४२
Jain Education International
'For Private & Personal Use Only
www.jainelibrary.org