SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ३१६-३२८ ] ३२२.३. लोकस्या. Lila.-20 Jain Education International षष्ठ उत्साहः धात्र्यङ्के विजने क्वापि तेनैक्षि धनसूनुना । धात्री तेनोदिताऽहि तदविश्रम्भाच्च साऽप्यगात् ॥ ३९६ ॥ युग्मम् गृहे रहः स बालां तां गोपयित्वाऽमुना ददे । पेयं खाद्यं च भोज्यं च कुमारक्रीडनानि च ॥३१७ प्रोक्ता च साऽस्ति मे कार्यं न गम्यं तत् त्वया बहिः । तया प्रपन्ने सर्वस्मिंस्तन्मन्दिरमसौऽप्यधात् ॥ ३१८ विवर्णास्यः कांदिशीक: पटप्रच्छन्नविग्रहः । सदनं देवदत्ताया जगामाथ धनाङ्गजः ॥ ३१९ अभ्युत्थायासनं दत्वा गौरवाद् देवदत्तया । विषादकारणं पृष्टो व्याजहे धननन्दनः || ३२० कान्ते निशम्यतामद्याकस्माद् दुर्दैवयोगतः । मम हस्ताद् विपेदे श्रीराजसूनुर्युगन्धरः ॥ ३२१ क्रियतां तत् किमत्रेति साऽऽख्यन्नैव तवोपरि । राज्ञो लोकस्य वा कस्याप्येवं सम्भावना प्रिय ॥ ३२२ तत् किं दृष्टोऽसि केनापि स ऊचे केनचिन्न हि । किन्तु ज्ञायेय मा जातु (?) च्छन्नं स्यात् कर्म नेदृशम् ॥३२३ साऽब्रवीत् सुमते मा भूः श्यामास्य छन्नचार्यपि । माच देशान्तरे यासीः सागस्त्वव्यञ्जकं ह्यदः ॥३२४ किन्तु प्रहृष्टवदनस्तिष्ठेर्जानेऽस्म्यतः परम् । एवमस्त्विति स प्रोच्यागात् तद्वच्छ्रेष्ठिवेश्मनि ॥ ३२५ दत्तासनो निविष्टोऽवग मित्रैकान्ते निविश्यताम् । तथाकृते धनसुतः सभयं श्रेष्ठिनेऽभ्यधात् ॥ ३२६ मम हस्ताद् विपेदे श्रीराजसूनुर्युगन्धरः । युक्तं किमत्र श्रेष्ठयूचे मित्र दृष्टोऽसि केनचित् ॥ ३२७ नेत्युक्तेऽनेन सोऽभाणीन् मा भैषीस्तिष्ठ निर्वृतः । प्राग्वन्नृपकुला दौ च परिभ्रम यथारुचि ॥३२८ " छन्न.. ३२४.२. १५३ For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy