SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १५२ लीलावतीसारे [३०२-३१५ औदार्यधैर्यगाम्भीर्यस्थैर्यश्रीकमलाकरः लक्ष्मीरत्नाकरः सत्यसन्धासन्धानशेवधिः ॥३०२ पुरीसर्वधुराधुर्योदर्यः सुकृतसम्पदा । श्रेष्ठी यशोवर्धनोऽस्य मैत्रीपात्रमजायत ॥३०३॥ युग्मम् अपरस्मिन्नहि . राजा राजपाट्यामवाहयत् । समं धनावहेनाश्वान् धाराभिः पञ्चभिर्भृशम् ॥३०४ अत्रान्तरेऽश्वौ वणिजोपनीतौ नीरदद्युती । उत्क्षिप्तहस्ताप्यपृष्ठौ प्रष्ठौ वेगान्नभस्वतः ॥३०५ तत्रैकत्र नृपोऽन्यत्राधिरुह्य स धनावहः । संक्षिप्तमण्डलीभिस्तौ वाहयामासतुश्चिरम् ॥३०६ ततः पद्भ्यां कशया चाहत्य मुक्तौ हयौ रयात् । मुक्त्वा सैन्यं नृपं हृत्वा समित्रमटवीं गतौ ॥३०७ ततश्च तृट्शुष्यदास्यः क्षमापोऽव्रत धनावहम् । तृषा वयस्य बाध्ये तज्जलं पायय पायय ॥३०८ वेगगच्छद्हयेनापि दाक्ष्यादामलकीद्रुमात् । धनावहेन जगृहे स्राक् क्षीरामलकत्रिकम् ॥३०९ एकमामलक राज्ञो दत्तमाश्वासितश्च सः ।। पुनस्तृषि द्वितीयं च तृतीयं च पुनस्तृषि ॥३१० अथ प्राप्तौ तरुषण्डमण्डितां तौ सरोभुवम् । बलक्षयाद् वाजिनौ तौ स्थितौ तत्राश्मनाविव ॥३११ ताभ्यामुत्तीर्य तौ यातौ सरस्तत्र जलादिना । धनावहेनोपचेरे नृपः सैन्यं तदन्वगात् ॥३१२ राट् पुरेऽगात् पुनर्जातमन्योऽचीकरदुत्सवम् । एवं श्रेष्ठिभुवस्तत्र सुखं जग्मुर्घना दिनाः ॥३१३ दध्यौ चैष उपकारग्राह्यो राजेति निश्चितम् । किन्तु मन्तोरुपकारं लुम्पेन्नो वेति मृश्यते ॥३१४ तस्य राज्ञोऽनेकदेव्युपयाचितशतोदितः । कुलाधारस्तम्भ एकवर्षपुत्रो युगन्धरः ॥३१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy