SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १२ २८९-३०१] षष्ठ उत्साहः देव क्ष्मेश शिरोरत्न नित्यदीपोत्सवक्रम । क्रमविक्रमकाकुत्स्थ युष्मत्सेवाऽस्तु मेऽन्वहम् ॥२८९ प्रतिपेदे च तद्राजा ततः सोऽस्थात् तदन्तिके । तत्प्रसादश्रियः पात्रं तन्मूर्त्यन्तरलीलया ॥२९० षट्त्रिंशदायुधयुधा तूर्यत्रिकविकासनैः । नराश्वेभचिकित्साभिस्तेपामेव च लक्षणैः ॥२९१ पत्रच्छेद्यलेप्यचित्रकर्मनिर्माणकौशलैः व्याकरणागमछन्दश्छन्दोभेदप्रवेदनैः ॥२९२ पाड्गुण्यादिराजनीतिप्रयोगौचित्यचातुरैः दाक्ष्यदाक्षिण्यसौजन्यदयादानादिसद्गुणैः ॥२९३ धनावहेन सुधिया यथाक्सरदर्शितैः । राजाऽत्यावर्जितस्तस्मै स्वं सर्वस्वमदित्सत ॥२९४६ चतुर्मिः कलापकम् ददाने देशराज्यं च जयशासनभू भुजि । सुधारसमुचा वाचा सोऽभ्यधाद् धननन्दनः ॥२९५ देव देवपाददेवतरुमूले ममानतः । स्वामिहस्तितुरङ्गादिवाहनं चाधिरोहतः ॥२९६ प्रभुस्वहस्तदत्ताशुवस्त्रभूषाः प्रबिभ्रतः । संविभागवतः पत्या ताम्बूलालेपनादिभिः ॥२९७ स्वामिप्रसादाद्वैतश्रीमुख्यसम्भावनाभृतः । एतत्सर्वहृता देशान्तरे राज्येन किं प्रभो ॥२९८॥ त्रिभिर्विशेषकम् ततो राजातिप्रसन्नो भाण्डागारिकमादिशत् । अये यथेष्टमेतस्य पूर्यतां सर्वमन्वहम् ॥२९९ । राजप्रसादपात्रस्येत्यस्य सौभाग्यभाजनम् । निष्कृत्रिमप्रेमहेमभूषाभूषितविग्रहा रतिकेलिसुधावाफी नवा पीनपयोधरा । राज्ञो वारवधूदेवदत्ताख्या सुखपायभूत् ॥३०१॥ युग्मम् २८९.३. काकुस्थ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy