________________
लीलावतीसारे
[२७०-२८८ परं स्वल्पेऽप्यपकारे कुप्येदेष न वेत्यपि । परीक्ष्यमिति सञ्चिन्त्य तन्मयूरमगोपयत् ॥२७५ ऊचे च तां प्रतिपन्नभग्नी छगणहारिकाम् ।। किञ्चिदाख्यामि ते भग्नि चेदाख्यासि न कस्यचित् ॥२७६ साऽऽख्यदन्धा कुष्ठिनी वा क्रियेय रविणा क्षणात् । चामुण्डया वा खाद्येय चेदाख्याम्यस्मि कस्यचित् ॥२७७ तन्निःशङ्क वद भ्रातः स ऊचे श्रूयतां स्वसः । क्षुधितेन मया रात्री भक्षितो भूपतेः शिखी ॥२७८ इति श्रुत्वाऽऽह सा प्रातर्यामि राजकुलेऽधुना । जलमानेतुमित्युक्त्वा सा जगाम नृपौकसि ॥२७९ प्रविशन्ती वदत्येषा शृणुयाद्वक्कुरो यथा । हा बर्हिन् क्वाद्य वीक्ष्यो यो जग्धः कर्पटिनाऽमुना ॥२८० ठक्कुरेणाभाणि कथं वेत्सीदं साऽवदत् प्रभो । तस्याकथ्यं न मे किञ्चिदित्युक्तमिति तेन मे ॥२८१ ततो रोषारुणाक्षेण तेनादिष्टः स भाम्भिकः । रे तमेतं दुराचारं सत्वरं व्यपरोपय ॥२८२ तेन रज्ज्वा गले बद्ध्वा बहिनिन्ये धनाङ्गजः । स च तस्य कषं प्रष्टुं शक्तोऽप्यसहताखिलम् ॥२८३ ऊचे च भाम्भिक त्वं मे ननु प्राणाधिकः सुहृत् । तन्मां विमुञ्च जीवन्तं विदेशं याम्यतः परम् ॥२८४ भाम्भिकोऽबत राजाज्ञां नात्येमि जनकेऽप्यहम् । मार्ये केनागसा मित्र सोऽवदत् शिखिमारणात् ॥२८५ जीवन् शिखी दर्श्यते चेत् तन्मां मुञ्चसि वा न वा । तेन राज्ञोऽज्ञापि सोऽवग विदेशोऽस्तु तदर्पणे ॥२८६ दत्तो जीवन् शिखी तेन प्रोक्तो निर्विषयो भव । नीचमैत्रीफलं दृष्टमिति दध्यौ धनोद्वहः ॥२८७ उत्तमसङ्गमफलं
द्वष्टुमुज्जयिनीमथ । प्राप्तः सैष व्यज्ञपयन् नृपं श्रीजयशासनम् ॥२८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org