SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २४-३६.]. सप्तम उत्साहः १७ तस्मिन्नासीत् पूर्वमेरुप्रतिबद्धे च भारते । विजित्वरं स्वःपुरस्य श्रीकाञ्चनपुरं पुरम् ॥२४ यत्राहच्चैत्यशृङ्गेषु पताका भूरिशो बभुः । तत्कारिणां पुण्यकोटीशानां कोटीध्वजा इव ॥२५ तत्र राजा राजराज इवोद्यत्कोशशेवधिः । सौभाग्यसुन्दरतया न कुबेरः परं क्वचित् ॥२६ चक्रवर्तीव परितोऽप्युदीर्णबलवाहनः । किन्त्वसङ्ख्येयरत्नेशः श्रीमान् विमलवाहनः ॥२७॥ युग्मम् तस्य शस्या मोदपात्रं देवी कर्पूरमञ्जरी । यस्याः श्रीशीलकर्पूरं परं न परिहीयते ॥२८ निबिडं बन्धमात्मानं नयेद् यः स्पर्शलोलुपः । तं स्पर्शनेभमाश्रित्य स सजा स्वेच्छयाऽचरत् ॥२९ तथा हि - नवीननलिनीपत्रवत् तनू नि मृदूनि च । श्चयोतगतिरसान्येष दिव्यवासांसि पर्यधात् ॥३० पट्टांशुकनिचोलेषु पूर्णेषु मृदुपक्ष्मभिः । गब्दिकाद्यासनेपूच्चेरासामास स लीलया ॥३१ हंसरूतभतां मुण्डहस्तपिण्डां च तूलिकाम् । निन्तशतपत्र्यादिस्रस्तरामध्यशेत सः ॥३२ शिरीषसुकुमाराङ्गीनवयौवनशालिनीः । वेशाः पस्पर्श सर्वाङ्गं गजवन्मीलितेक्षणः ॥३३ इत्थं गुणीकृताशेषशेषाक्षव्यापृतिश्च सः ।। पञ्चेन्द्रियोऽपि बकुलवत्त्वचेकेन्द्रियोऽभवत् ॥३४ त्यक्तराज्यधुराचिन्तो मन्त्र्यालापपराङ्मुखः । अन्तःपुरैकशरणः स राजाऽगमयद् दिनान् ॥३५ इतश्च - क्षितिप्रतिष्ठितपुरे जिनशासनभावितः । जीवादितत्त्वविदुरः स्थिरसम्यक्त्वभूषणः ॥३६ २५.३. कोटीशिनां. ३२.४. श्रस्तर'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy