SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १४७ २३६-२४७] षष्ठ उत्साहः इतश्च भारते क्षेत्रे भाजते मिथिलापुरी । शिथिला जनता यत्रोषिता स्वर्गस्य साधने ॥२३६ तस्यां दृढरथो राजा रामवद् राज्यमन्वशात् ।। प्रचक्रं बत यस्यैकं द्विट्चक्राण्याक्रमीत् क्रमात् ॥२३७ वसुमित्रोऽभवत् तत्र श्रेष्ठी श्रेष्ठतमः श्रिया । धिया येन जितो मन्ये ययौ सुरगुरुर्दिवम् ॥२३८ सुधवा तस्य गृहिणी गृहनीतिविशारदा । शारदेन्दु पराजिग्ये यच्छीलमतिनिर्मलम् ॥२३९ तस्याः कुक्षिमलञ्चक्रे जीवस्तस्य यशोरवेः । सम्पूर्णे समये जज्ञे तनयो नयनोत्सवः ॥२४० उत्सवेन वसुनन्द इति तस्याभिधाऽभवत् । कलाश्च कलयामास कलामंदिव निर्मलाः ॥२४१ सागरदत्ततनयामभिरामां मनोरमाम् । परिणिन्ये वसुनन्दः सानन्दोऽजनि सृष्टिकृत् ॥२४२ वसुनन्दस्य तु मनोऽरमयन् न मनोरमा । परिग्रहश्रियां तद्धि सक्तमस्तोभलोभतः ॥२४३ ततश्च - धातुवाद खन्यवादं विगन्धिमृदमभ्रकम् । मूलीः पारदबन्धं च वसुनन्दोऽत्यशिक्षत ॥२४४ यद् यदारभते सैष लोभक्षोभितमानसः । तत् तत् स्याद् भस्मसात् सर्व कृषिकर्मवदूषरे ॥२४५ वसुमित्रस्ततः पुत्रमूचे वत्सेति मा कृथाः । धातुवादिकं ह्येतत् सर्व कापुरुषोचितम् ॥२४६ यतः - व्यवसायान्तरच्छेद आत्मक्लेशो धनक्षयः । भोगेभ्यो वञ्चनं लोकगर्दा चेदं वितन्वताम् ॥२४७ २४५.१. आभरते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy