________________
[२४८-२६०
१४८
लीलावतीसारे किञ्च - धातुवादे रसे द्यते विवरे च रसायने । योगिन्यामञ्जने बुद्धि क्रुद्धं देवं प्रयच्छति ॥२४८ धातुवादादिदेष्टारष्ठका धूर्ता नराधमाः । न च तत्सङ्गतिः श्रेष्ठा श्रेष्ठा तूत्तमसङ्गतिः ॥२४९ अधमोत्तमसङ्गत्योर्विपाकश्रीप्रदर्शकम् निशम्यतां सौम्यसम्यगेकमेव कथानकम् ॥२५० श्रीकोशलापुरे श्रेष्ठी धनोऽतिधनदः श्रिया । धनश्रीः प्रेयसी तस्य तयोः पुत्रो धनावहः ॥२५१ पितृभ्यां कौतुकात् सैप तथा द्वासप्तति कलाः । अध्यापितो यथा जज्ञे तासु सर्वासु तत्त्ववित् ॥२५२ समये विमलमति विमलश्रेष्ठिनन्दनीम् । विमलातुलसौन्दयीं पिता तेनोदवाहयत् ॥२५३ दक्षो विनीतो विक्रान्तस्त्यागी सौजन्यमन्दिरम् । धनावहस्ततः सोऽभूद् विश्वस्यापि सुखावहः ॥२५४ पर्यन्तसमये पित्रा विशेषादेष औच्यत ।। अधमैः सह सौहार्द न कार्य कार्यमुत्तमैः ॥२५५ यशःशेषे च पितरि कृत्वा तस्यौर्ध्वदेहिकम् । कालस्वभाववित् कालाद् विशोकोऽभूद्धनावहः ॥२५६ अन्यदाऽचिन्तयच्चैष परीक्ष तद्वचः पितुः । किं तत् सहेतुकं किं वा कल्पशिल्पिप्रकल्पितम् ॥२५७ ततोऽलभ्यानि जग्राह ददौ नोद्धारकं क्वचित् । व्यकीणीत सङ्ग्रहीत भाण्डं जग्राह नापरम् ॥२५८ सर्व स्वजननीजायादीनां ज्ञातं विधाय च । तीर्थयात्रादिच्छलेन विदेशेऽगाद् धनावहः ॥२५९ सन्निवेशे क्वचित् शून्यप्राये प्रक्षीणऋद्धिकम् ।
ज्योत्कृत्य ठक्कुरं तस्य सेवामेष प्रपन्नवान् ॥२६० २५०.१. अधत्तमो .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org