SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १४६ लीलावतीसारे [२२८-२३५ आवासितः सोऽथ तस्थौ कूपे पातालवम॑नि । दृढीकृत्य पटकुटीविश्रमाय दिनत्रयम् ॥२२८ पातालस्येव वज्राग्निरौर्ववर्द्धनवारिधेः । तदाऽकस्मात् समुत्तस्थौ सार्थाद्दूरे दवानलः ॥२२९ तेन प्लुष्टास्तरव उरवः शुष्कपत्रौघगत्या ___ पक्वास्तेनाधिबिलमुरगौत्वाखुगोधाशशाद्याः । भीतास्तस्माद्धरिणहरिणारातिशार्दूलमुख्या वेगान्नेशुः सहजरिपवोऽप्येकसार्थेन दूरम् ॥२३० मन्ये लोभदवानल नवनवेच्छाज्वालमालाकुल प्रस्फायत्तममन्वहं पितृसुहृद्भत्यादिसर्वकषम् । श्रुत्वा तस्य दवानलः खरमरुद्यानं किलाध्यासितः स्पर्धाबन्धसमुद्धतोऽधिरजनि स्मायाति सार्थान्तिकम् ॥२३१ तत् तादृक् पितृहत्यया यदतुलं तेनार्जितं दुष्कृत तेनेवाथ दवानलेन कटकावेष्टेन संवेष्टितः । आक्रन्दद् द्विचतुः पदातुररवव्यापूर्णरोदोन्तरः ___ सार्थः सैष वेः पवेरिव हतेजज्ञेऽतिमूढान्तरः ॥२३२ वातोत्पाटितदह्यमानतृणतापात्तेन सार्थान्तरे संलग्ने दहने महापटकुटी भाण्डेषु सर्वेष्वपि । आः पापाः पय आनयध्वमभितो विध्याप्यतां वहिरि त्याक्रोशन् भृतकान् भृशं रविरभूद् रौद्राभिसन्धिस्तदा ॥२३३ दग्धे द्वारवतीनयेन सकले सार्थे वराको खी रौद्रान्धोऽजनि सागरायुरहहाद्ये नारके नारकः । तावद् गोमहिषोष्ट्रमानुषकुलान्यादह्य तेनांहसा सद्यः सोऽपि दवानलः किल बलाद् भस्मावशेषोऽजनि ॥२३४ तत्रानन्तगुणं तस्माद् दवादपि हि दुःसहम् । सहमानो रविर्दुःखमेक सागरमत्यगात् ॥२३५ २३३.१. तापातेन. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy