________________
१४५
२१४-२२७]
षष्ठ उत्साहः अत्र चानीय विक्रीय गरीयस्तरलाभतः । जले नष्टां स्थलाल्लब्ध्वा लक्ष्मी स्यामनृणः पितुः ॥२१४॥ युग्मम् स्मित्वा स्माह जसादित्यो दृष्टं हि कपिचापलम् । मन्यामहे तव पुनर्वत्सातिकपिचापलम् ॥२१५ आप्तैनिषिद्धोऽपि गत्वा विदेशं सर्वनाशतः । प्राप्तोऽपि प्राणसन्देहं पुनस्तं यद् यियाससि ॥२१६ तदत्रैव सुखं तिष्ठ पितृशुश्रूषणोद्यतः । स्वं चात्मानं च लोभेन विदेशे मा विनाशय ॥२१७ इत्थं हितोपदेशेनाप्यन्तः कलुषितो रविः । व्यचिन्तयज्जरन्नेष सर्वप्रत्यूह एव मे ॥२१८ तच्चेत् कथञ्चिन्नायं स्यात् तद्व्यवहारनन्दनः । धनैरनिधनैः कुर्व धनदं विमदं क्षणात् ॥२१९ जरया कवलितोऽपि विलयं यात्यसौ न हि । साहायकं तज्जराया मम कर्तुं खलू चितम् ॥२२० अथान्यदा सहभुजः पितुस्ताम्बूलमादरात् । सविषं स ददौ पाप्मा लोभः सर्वकषः खलु ॥२२१ तन्मूर्छितं मदनित (?) इत्यसौ तमसू षुपत् । दीर्घनिद्रां प्राप्तमेतं निश्चिकाय चिराय सः ॥२२२ शोककोलाहलं चक्रेऽमूर्च्छद् भुव्यपतच्छठः । तत् सत्यं दीपयेद्ग्रामं पापो व्याहरतेऽपि च ॥२२३ बन्धुभिर्बोधितः कृच्छ्रात् पितृकृत्यं चकार सः । चिरात् कथञ्चिन् मुमुचे स पापः शोकनाटकम् ॥२२४ मात्रा पत्न्या बन्धुभिश्च वार्यमाणोऽप्यनेकशः ।। पित्रा वियुक्तो नाऽस्म्यत्र क्षमः स्थातुमिति ब्रुवन् ॥२२५ कर्पासरूतसूत्रादि क्रीत्वा भारसहस्रशः । महिषोष्टवृषादींश्च गृहीत्वा सोऽतिभूरिशः २२६ गरीयसाऽथ सार्थेन प्रतस्थे गर्जनं प्रति ।
क्रमक्रमेण क्षेमेण प्रापज्जाङ्गलमण्डलम् ॥२२७॥ त्रिभिर्विशेषकम् Lila.-19
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org