________________
१४४
लीलावतीसारे
[२००-२१३ ततोऽसौ नृत्यति ब्रुते याति तिष्ठति धावति । हसति क्रुध्यति स्तौति गायति क्षौति रोदिति ॥२०० वस्ते रथ्याचीरिकाश्च नग्नो भ्राम्यति सर्वतः ।। कथञ्चित् प्राप्तो गोष्ठादौ भिक्षते च गृहे गृहे ॥२०१ हन्यते डिम्भकै 'ष्टिलेष्टुकशादिभिः । हा तात हा मातस्त्रायस्वेत्यादि दीनं च जल्पति ॥२०२ कथञ्चिदैवयोगेन भगुकच्छपुरं ययौ । गृहे गृहे भिक्षमाणः प्राप्तश्च स्वगृहाग्रतः ॥२०३ न जानीते स्वपितरं मातरं न च वल्लभाम् । तत् सत्यं यद् बुधैरुक्तं लोभः सर्वविपत्खनिः ॥२०४ ततः कथञ्चित् पितृभ्यां परिज्ञाय प्ररुद्य च । गृहमध्ये बलान्निन्ये विकलः स यशोरविः ॥२०५ ततश्च मान्त्रिकमुख्यान् सर्वानाचष्ट तत्पिता । रविं यः प्रगुणीकुर्यात् तस्मै स्वर्णमियद्ददे ॥२०६ प्रारभ्यत ततस्तत्र तैर्यथास्वमुपक्रमः । उपकारः खल इवाखिलो जज्ञे तु निष्फलः ॥२०७ पात्रावतीर्णाऽथाख्यत् सा यक्षिणी मेति ताम्यथ । अप्रार्थितप्रार्थकोऽसौ मयैवं हि व्यधीयत ॥२०८ युष्मासु कृपया मुञ्चे चेद् बथाथाभ्यधुः समे । महाप्रसादस्तादेवि सद्योऽभूत् प्रगुणो रविः ॥२०९ ततो वर्धापनं जज्ञे जसादित्यस्य मन्दिरे । माङ्गलिक्यानि चाजग्मुः प्रतिबान्धवमन्दिरात् ॥२१० पृष्टो रविः स्ववृत्तान्तमाततानान्यथान्यथा । तल्लोभ इव तत्कूटमप्यपारं हि वार्धितः ॥२११ ठकितो लोभधूर्तेन स रविर्मन्दकुट्टितः । परिग्रहग्रहाविष्टः प्राचष्ट पितरं पुनः ॥२१२ तात प्रसादादादाय कासाद्यतिभूरिशः । .
गत्वा गर्जनकं भूरिलाभात् क्रीत्वा हयोत्तमान् ॥२१३ २०४.२. न न. २०९.१. मुचे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org