________________
१८६-१९९]
षष्ठ उत्साहः अहो अकार्य मा कार्षीरिति शब्दो नभस्युदैत् । अथाक्षिभ्रुवमुत्क्षिप्य समन्ताद् रविरैक्षत ॥१८६ न च कञ्चन सोऽद्राक्षीदये मे वादिते श्रुती ।। पुनः खनितुमारेभे पुनर्वनिरभूदिवि ॥१८७ अरे किञ्चिन्न तेऽत्रेति तमसाऽवगणय्य सः । प्रचखान पुनर्जानन्ननिर्वेदं श्रियः पदम् ॥१८८ अथ गाढतमं वाक्यमुच्छशाल नभस्तले । रे मूर्खशेखर नराधम मा मा वृथा मृथाः ॥१८९ अदृश्यविग्रहः को मां कुतो हेतोनिषेधति । इत्युन्मुखीभूय रविः शिरःप्राञ्जलिरभ्यधात् ॥१९० यक्षोऽध्यक्षोऽथाचचक्षेऽधिष्ठाताऽस्य निधेरहम् । रे वराक न योग्योऽसि तेन त्वं प्रतिषिध्यसे ॥१९१ तथाऽप्युच्चैः खनन् मूढः क्रुद्धेन व्यन्तरेण सः । स्वस्थानाद्दशयोजन्यां मरुतोत्क्षिप्य चिक्षिपे ॥१९२ विलक्षस्तत्र स भ्राम्यन् वटे प्रैक्षिष्ट यक्षिणीम् । सत्योपयाचितां मत्वा तामारार्द्ध प्रचक्रमे ॥१९३ सप्तमेऽह्नि च साध्यक्षा वरं वृण्विति तं जगौ । लुब्धः स मुग्धकोऽवादीत् भुक्ष्व भोगान् मया सह ॥१९४ साऽवोचदन्यद्याचस्व सोऽवादीदिदमेव हि । पुनः पुनःस्तथालापे कोपादाचष्ट यक्षिणी ॥१९५ आः पाप मा कृथा जापं गृहं व्रज मृतोऽन्यथा । कथयिष्यसि नैवोक्तमथ स्मित्वा रविर्जगौ ॥१९६ यस्ते वशे त्वदाज्ञां स कुर्यान्नेवास्मि ते वशे । चेदस्ति मन्त्रसामर्थ्य तन्मया सह रंस्यसे ॥१९७ इति ब्रुवन् पुंब्रुवोऽसौ देव्याऽघाति चपेटया । दन्तसम्पुटकं वध्वा पपात च महीतले ॥१९८ पुस्कीटे मेऽत्र कः कोप इत्युद्यद्दयया तया । न मारितः किं तु मुक्तो अहिलीकृत्य हेलया ॥१९९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org