________________
१४२
लीलावतीसारे
[१७२-१८५ कस्त्वं भो केन कार्येण रसमध्येऽत्र तिष्ठसि । सोऽवक् क्षिप्तोऽस्मि धूर्तेनात्र कूप्यां रसहेतवे ॥१७२ आदौ तुम्बं रसपूर्ण तस्य दत्तं मयाऽऽर्जवात् । निरालम्बीकृत्य मुक्तः पापेनास्म्यपतं रसे ॥१७३ रसेन मेऽधरकायश्चक्रे निमांसलोहितः । क्षुत्तष्णावर्जितो जीवाम्यस्येवावार्यवीर्यतः ॥१७४ तदादितो रसतुम्बं मा दद्या वत्स योगिनः । अन्यथाहमिव त्वं चामुना प्रक्षेप्स्यसे रसे ॥१७५ अत्रान्तरे योगिनोर्ध्वभूचे प्रेषय तुम्बकम् । । रविराहास्मि तुम्बं च समेष्यावः सहैव हि ॥१७६ योग्याख्यत् सममाक्रष्टुं त्वां तुम्बं च न हि क्षमे । तन्मुग्ध तुम्बं यच्छादौ तत आकयते भवान् ॥१७७ रविर्जगौ मामाकृष्य गृह्णीथा रसतुम्बकम् । न विश्वसिमि येनाहं तवैवं वादिनः सखे ॥१७८ रज्जु क्षिप्त्वा रुषा कूप्यां स पापो विवरान्निरैत् । रविस्तु रसतीरस्थः पुंसोचे रसवासिना ॥१७९ मा विषीदात्रैव तिष्ठ रसपानार्थमेष्यति । गोधा तत्पुच्छमालम्ब्य निर्गच्छेवत्स सत्वरम् ॥१८० तेनोपायेन विवरगर्भान्निर्गत्य कृच्छ्रतः । पुनर्जातंमन्य एष स्वदेशायाचलत् पुनः ॥१८१ गच्छन् पलाशस्य पोतं भूप्रविष्टं विलोक्य सः । रविविचिन्तयामास ध्रुवमत्रास्ति शेवधिः ॥१८२ अक्षीरिणो हि वृक्षस्य भूप्रवेशिनि पोतके ।। रक्ते रसे स्यू रत्नानि पीते पीतं सिते सितम् ॥१८३ यावन्मात्र पोत ऊर्ध्वं तावन्मात्रे रसातले । अल्पो बहुर्वा निधिः स्याद् ध्रुवं बिल्वपलाशयोः ॥१८४ किञ्चैष पोतोऽतिस्थूलो मूले तत् प्राप्तवान् निधिम् ।
रविविचिन्त्यंत्येभाग्यखनिः खनितुमुद्यतः ॥१८५ १८२.१. पलासस्य; १८२.४. सेवधिः. १८४.४. "पलास.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org