________________
लीलावतीसारे अनुजानीहि तत् तातामुं गन्तुं भृगुपत्तनम् । कथञ्चित् तदनुज्ञातो रविणोत्साहितो वसुः ॥९० उक्तश्च सांयात्रिकाणां स्वभाण्डं मित्र माऽभिधाः । पृष्टेन तु त्वया वाच्यं मैत्र्याऽऽगां रविणा सह ॥९१ अन्यथा तद्गिरा ज्ञात्वा त्वां वैदेशिक इत्यसौ । भगुकच्छाधिभूस्त्वत्कं भाण्ड मा स्म ग्रहीदिति ॥९२ ब्रुवाणस्येति पापस्य रवेस्तस्यायमाशयः । हत्वेन निर्मूल्यरत्नान्यस्यादास्येऽस्मि निश्चितम् ॥९३ यदि त्वस्याप्यत्र भाण्डमस्तीति ज्ञास्यतेऽपरैः । तदा निःस्वामिकं भाण्डमस्य स्याद्राजसादिति ॥९४ सखे स्वभत्य मा कार्षीये मे भत्यास्तवैव ते । रवेर्वचः पितुरिव स्वच्छात्मा त्वग्रहीद्वसुः ॥९५ शुभेऽयथाभ्यां बोहित्थं स्थापितं सागरान्तरे । भाण्डं शुल्कापयाञ्चक्रे चक्रे बोहित्थपूरणम् ॥९६ कुलदेवी नमश्चक्रे चक्रे सर्वजनौचिती । समुद्रः पूजयाञ्चक्रे चक्रे गुरुनमस्कृतिः ॥९७॥ युग्मम् आदाय . दिव्यरत्नानि प्रस्थितेनर्जुचेतसा । विरहानलसंतप्तपितृबन्धुसुहृद्युजः
॥९८ वसुमित्रेण मित्रेण सहितोऽथ यशोरविः । ददानो दानमर्थिभ्यः प्रतीरं प्राप नीरधेः ॥९९॥ युग्मम् प्रणम्य मातापितरौ तदत्ताशीः प्रहर्षलौ । आरुक्षतां यानपात्रं वसुमित्रयशोरवी ॥१०० भगुकच्छानुकूलेन दक्षिणेन नभस्वता । प्रेर्यमाणं यानपात्रं क्षणाद् दृक्पथमत्यगात् ॥१०१ पञ्चषाणि दिनान्येवं वहमानेऽत्र वाहने । लोभेनाजन्मसध्रीचा पापेनाकुलितो रविः ॥१०२ व्यचिन्तयद् दीव्यरत्नकीलकोऽयं कथञ्चन ।
उत्खन्यते जन्यते च स्वाधीनो रत्नशेवधिः ॥१०३॥ युग्मम् ९४.३. निस्वानिकं. १००.२. तद्दता..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org