SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १३५ १३५ ७७-८९] षष्ठ उत्साहः उन्मज्जन्मज्जदुच्चस्तरशिखरिसुहृल्लोलकल्लोलमाला प्रव्यक्तास्थावरोर्वीधरगृह जलधीतिप्रवादानुवादम् । पारावारं स्वलीलासर इव रभसावेशतोऽतीत्य रत्न द्वीपालङ्कारसारं विजयपुरमसौ क्षेमलक्ष्म्या सहागात् ॥७७ ततः सांयात्रिकेणोक्तस्तूर्णमेव यशोरविः । पोतं शुल्कापयामास प्रमोदोन्मेदुरोदरः ॥७८ वसुमित्रस्य च गृहं गृहीत्वा भाटकेन सः । तत्र भाण्डं समुत्तार्य सोऽस्थात् स्वगृहलीलया ॥७९ अथ सांयात्रिकोऽवादीदमुं विसृज मामिति । सोऽवक सहैव यास्यामस्तूर्णं चेद् भाण्डविक्रयः ॥८० महीयसाथ लाभेनाभूत् क्रयाणकविक्रयः । ताम्बूलाशनवस्त्राद्यैर्वसुमित्रश्च मित्र्यभूत् ॥८१ दृष्ट्वा रत्नान्यमूल्यानि वसुमित्रनिकेतने । [आ]दित्सुर्लोभतः सोऽभूल्लेभे तु न कथञ्चन ॥८२ जग्राह च जसरविस्ततो रत्नादि भूरिशः । वसुमित्रमवादीच्च त्वमप्येहि मया सह ॥८३ भृगुकच्छे महांल्लाभो रत्नेभ्यो भवति ध्रुवम् । रत्नपूर्ण यानपात्रं साध्यं भवतु चावयोः ॥८४ सोऽवक् पृच्छामि पितरौ समूचेऽथ यशोरविः । पित्रोरस्मि बलादागां लाभश्चाभूदियान् मम ॥८५ वसुमित्रोऽवदत् पित्रो गुकच्छे ब्रजाम्यहम् । सहामुना तत्र लाभो रत्नेभ्योऽतिमहान् यतः ॥८६ वसुः पितृभ्यामूचे ते वत्स किं नात्र पूर्यते । विषमोऽब्धिरल्पलाभो बहुच्छेदश्च वय॑ताम् ॥८७ ततोऽव्रत जसरविररुपलाभोऽम्बुधिः कथम् । वसोः पितृभ्यामूचेऽब्धिः प्राणसन्देहकृद्यतः ॥८८ स्मित्वाऽथाह जसरविस्तुल्या सर्वत्र वृद्धगीः । यतोऽहमपि . पितृभ्यामेवमेव निवारितः ॥८९ ८४.१. महाल्लाभो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy