________________
१३४
लीलावतीसारे
न प्रत्यगामहं तात यद्धीश्चलति वार्द्धके । प्रत्यायितोऽद्य भवता न लोकख्यातिरन्यथा ॥ ६४ यथारुचि ततो भुक्त्वा यूयं स्वपित निर्भरम् । गृहकर्मसु निश्चिन्ताः सर्वथाऽपि ह्यतः परम् ॥ ६५ तत् तात मातर्भवद्द्भ्यां भवद्वध्वा च सर्वथा । रत्नद्वीपं यियासो प्रोत्साहः पोष्यतां परम् ॥ ६६ अथाभ्यधुस्ते सिद्धिः स्ताच्छकुनाः स्युः शुभावहाः । गतागते क्षेमतः स्तां सन्तु शेवधयो वशाः ॥६७ ततश्च जसरविणा प्रोक्ताः सांयात्रिका मुदा । रत्नद्वीपप्राप्तिमित्रं यानपात्र प्रगुण्यताम् ॥ ६८ प्रत्यूचुस्ते यानपात्रं देव प्रगुणमेव हि । भाण्डान्यथ सहायाश्च तेनागृह्यन्त भूरिशः ॥६९ मध्येऽम्भोधे नाङ्गरितं यानपात्रं शुभे दिने । नदीपूरैरिवाम्भोधिर्भाण्डपूरैश्च पूरितम् ॥७०
गमनागमे ।
चाष्टमम् ॥७१
सह सांयात्रिश्चक्रे व्यवस्था समुद्रदेवमुद्दिश्य विधिनाऽकारि ततः पितृभ्यां स्वजनैः पूर्लोकैश्व परिष्कृतः । कल्पद्रुवद् ददद्दानं तीरं प्राप स वारिधेः ॥७२ अस्ताघाम्बुधिलङ्घनैकरसिकं किञ्चिन्नु भूतान्तरं
तत् तावज्जनतास्थितिक्षममथास्थास्न्वन्तरीपान्तरम् । स्वपुण्यकमलालीलाविलासश्रियां
प्रेक्षामास यशोरविः प्रवहणं तद्वार्धिमध्यासितम् ॥ ७३ पूर्यमाणेषु तूर्येषु जनन्या कृतमङ्गलः । पित्रोः प्रणेमिवान् पादौ तद्दत्ताशीः प्रहर्षुलः ॥७४ सम्भाष्य पत्नीं बन्धूंश्च पौरानपि यथोचिति । यानपात्रं मित्रमिवाध्यासामास यशोरविः ॥७५॥ युग्मम् तत् ताक तन्मनोराज्यवेगाग्रेसरवेगतः । गन्तुं प्रववृते पोतः सागरे तस्य पोतवत् ॥ ७६ ६७.३. क्षेमत.
भाण्डागारमथ
Jain Education International
For Private & Personal Use Only
[ ६४-७६
www.jainelibrary.org