SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ५३ ५३] Jain Education International मद्वारके ह्याज्यगुडप्राज्यं भोज्यमभूद्गृहे । त्वद्वारके तु क्वथितधान्यं दुर्गन्धि तैलयुक् ॥५३ स्त्रीणां दिव्यानि वासांसि भूयांश्च मदनेहसि । त्वं तु धत्से स्वयमपि दण्डिखण्डितमंशुकम् ॥५४ ततो गृहव्ययमियन्मात्र पूर से कथम् । रत्नद्वीपं चेन्न यासि वत्स तुच्छेतराशय ॥ ५५ - पुत्रः तातैष ते यशस्कारी गुणोऽस्मि यदनुल्वणः । मां च वक्ति जनो लक्ष्मीजयिनं न तया जितम् ॥५६ न चैवमपि नास्ति श्रीरिति मे शक्यते जनैः । दिव्याकलपा अपि नाढयाः सम्भाव्यन्ते नटादय ॥५७ पिता तत् किमस्त्यर्धनिष्पन्नं येनैवं चष्ठ उत्साहः - दैवौकः कूपवापिकम् । प्राणसन्देहकर्मठे कर्मणि स्पृहा ॥५८ किं वा मया नार्पितं ते किं वा तेन न पूर्यते । किञ्च त्वत्कव्यवहृतं या शोभा साऽपि ते नहि (?) ॥५९ न च भोगे च कीर्ति च विना पुत्र श्रियः फलम् । कीर्तिश्च नादात्रभोक्त्रोस्तदारम्भेण किं तव ॥ ६० किञ्च यद्यत् श्रोष्यसि त्वं तत्तच्चेत् कर्तुमिच्छसि । तदा सर्वेण लोकेन वातूल इति वक्ष्यसे ॥ ६१ अपि च - रत्नद्वीपागामिनोऽप्येतावती श्रीर्न कस्यचित् । मयाऽर्पिता यावती ते तत्सुखी पितरौ पृणु ॥ ६२ - पुत्रः सत्यं तातास्ति मे लक्ष्मीर्भवद्दत्ताऽतिपुष्कला | अर्जामि चेत् तदधिकां त्वत्सूनुः साधु किं न तत् ॥ ६३ ५७.३. दिव्याः कल्पा ( Visarga added in the MS. as a correction ). १३३ For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy