________________
लीलावतीसारे
गन्धताम्बूलमाल्यादिनाम कश्चन तद्गृहे । नालिकेरद्वीप इव हुतभुग्नाम वेत्ति न ॥३९ अर्थार्जनैकरसिको दानभोगपराङ्मुखः । विदधे विधिना मन्ये भूः परिग्रहलोभयोः ॥४० देशान्तरायातजनसमवायस्य मण्डपे । स यशोरविरन्येद्युः प्राप्तः शुश्राव तत्कथाः ॥४१ देशिनां नायकेनोक्तं भो भोः कः कुत आगतः । किञ्च क्रयाणकं केनानिन्ये लाभः कियानभूत् ।।४२ एकेनोक्तं गर्जनकान्मञ्जिष्ठाहिगुवाजिनः । मयाऽऽनीता व्ययशुद्धो लाभो मेऽष्टगुणोऽजनि ॥४३ अन्येनोचे पुण्डदेशाद् वैडूर्यादिकमानयम् । उपक्षयविशुद्धो मे लाभो जज्ञे चतुर्गुणः ।।४४ अपरोऽवगहं वज्राकराद् वज्राद्युपानयम् । गच्छतोऽष्टगुणो लाभो विंशतिगुण आयतः ॥४५ इतरः स्माहास्मि रत्नद्वीपाद् रत्नाद्यपानयम् । लाभोऽसङ्ख्यगुणो मेऽभूत् परमब्धिः सुदुर्गमः ॥४६ मया दध्ये च चेत् क्षेमादुत्तीर्णो नैमि तत् पुनः । पदे पदे यतोऽपाया आगान् तु गृहभाग्यतः (?) ।।४७ यथाश्रुतं तत्र तत्र यियासन् स यशोरविः । बबन्ध निश्चयग्रन्थि रत्नद्वीपगमं प्रति ॥४८ गृहे गत्वा पितुर्मातुः पत्न्याश्चायमचीकथत् । नानाऽद्येति वणिग्वार्ता अश्रौषं देशिमण्डपे ॥४९ तन्मां तातानुजानीहि रत्नद्वीपगम प्रति । येनासङ्ख्यगुणाल्लाभात् तातपादौ महाम्यहम् ॥५० ततश्च यशआदित्यः पुत्रवात्सल्यपिच्छिलः । स्मित्वा स्माहातीवधनव्यये नोxचितो भवान् ॥५१ त्वयेगारम्भि गृहव्यवहारोऽत्यनुत्तरः । मदीयवारके याग वीक्षाञ्चक्रे न केनचित् ॥५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org