________________
१३१
२६-३८]
षष्ठ उत्साहः व्यजिज्ञपत् पुनर्भूपः प्रभो किं कृतवानसौ ।' फल किमासेदिवांश्च मूलतः प्रतिपादय ॥२६ सुधर्मस्वाम्यथावादीद् देवदुन्दुभिनिस्वनः । । संसूत्र्य श्रोत्रमनसोमैत्री धात्रीपते शृणु ॥२७ अत्रैव भरते लाटललाटतिलकं बभौ । भगुकच्छपुरं यस्य नर्मदा नर्मदा नदी ॥२८ तच्चान्वशिषदुर्वीशो विक्रमो यस्य विक्रमः । त्रिविक्रम इवारातिदैत्यकान्तातितापनः ॥२९ श्रीप्रियङ्गुलता तस्य देवी यत् सौरभश्रिये । सा प्रियङ्गुलता मन्ये शीतोत्पातेऽपि पुष्यति ॥३० श्रेष्ठी श्रेष्ठः पुरेऽत्रासीद्यत्र आदित्यनामतः । आदित्य इव शेषेभ्योऽभ्यधिको वसुसम्पदा ॥३१ सुमङ्गला प्रियाऽस्याभू दुद्भूतकुलमङ्गला । मङ्गलं मण्डनं चाद्यं या मेने शीलमेव हि ॥३२ मनोरथशतप्राप्तस्तत्पुत्रोऽभूद्यशोरविः । नाम्ना येनात्मैव पुत्र इति सत्यापिता श्रुतिः ॥३३ उपयेमे स च ब्रह्मदत्तपुत्रीं जयश्रियम् । जगज्जयश्रियं पाणौ कृतां मेने स्मरो यया ॥३४ गुरुं विना xx येति व्यलोपीत् स यशोरविः ।। विना गुरूपदेशं यत् स कार्पण्यकलामधात् ॥३५ ततश्च - शटितं कथितं जीर्णमक्रय्यं तुच्छमन्नकम् । गृहे व्यापारयत्येष घृतं धान्यं मलीमसम् ॥३६ यहातीततक्रग्रहात्यम्लकुर्कुसमात्रकम् । . भत्यादीन् भोजयत्येषोऽतिकट्वा तैलधारया ॥३७ भाण्डस्विन्नं मुधालभ्यं दण्डित जीर्णमंशुकम् ।
परिधत्ते स्वयमयं शेषवाती तु वेत्ति सः ॥३८ ३७.२. मत्रकं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org