________________
लीलावतीसारे
[१३-२५ आरम्भः कोऽप्यसौ नास्ति न लोभान्धः करोति यम् । परिग्रहोऽप्यसौ नास्त्यारम्भात् संपद्यति न यः ॥१३ लोभादारम्भ आरम्भात् स्यात् परिग्रहसङ्ग्रहः । संसारसन्निपातश्च त्रिदोष्याऽवश्यमेतया ॥१४ अपि च - एकेन्द्रिया अपि निधि जुषन्ते लोभसंज्ञया । अपि मूषकसर्पाद्या अधितिष्ठन्ति शेवधिम् ॥१५ नृत्वेऽपि वणिजो निःस्वा लोभात् कूटानि कुर्वते । भ्रातरं पितरं बन्धुं वञ्चयन्तेऽपि मातरम् ॥१६ ईश्वरा व्यवहारेषु वणिज्यापुत्रका अपि । लोभमस्ता वञ्चयन्ते कूटलेख्यादिना मिथः ॥१७ नियोगिनोऽ(?)करान्यायदण्डैर्मुष्णन्ति मेदिनीम् । उत्पद्यन्ते स्वभूषादौ देवा मूर्छातिविह्वलाः ॥१८ लोभाभिभूता भूपाश्च दण्डयन्ति निजाः प्रजाः ।। तथाऽभिषेणयन्त्यन्यास्तद्राज्यादिजिघृक्षवः ॥१९ तदशक्तः पुनः स्वामि मन्त्रिहस्तिहयादिषु ।। प्रयुङ्क्तेऽभिमरक्ष्वेडान् दहेत् तद्देशमग्निना ॥२० लोभात परिग्रहाच्चैवं प्ररूढस्याद्यशाखिनः । फलं कटुकमश्नन्ति नरकं बालिशा नराः ॥२१ तत उद्धृत्य तिर्यक्षु नरकेषु तथैव ते । लोभात् परिग्रहग्रस्ता नरके यान्ति भूरिशः ॥२२ अकामतः कथमपि निर्जीणे क्लिष्टकर्मणि ।। कश्चिन् नृत्वे राज्यलक्ष्म्या वृतः पुण्यात् कुतश्चन ॥२३ लोभाद् राज्यान्तराकाङ्क्षी राज्यं हा हारयेत् कुधीः । यथैष . कनकरथः श्रीपद्मरथनन्दनः ॥२४ निषेदिवान् दक्षिणेन जयशा[सन ]मन्त्रिणम् । उत्तरेण पुनः सूरं पुरोधसमिलापते ॥२५॥ त्रिभिर्विशेषकम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org