________________
षष्ठ उत्साहः
अथापरस्मिन्नहनि श्रीसुधर्मपदाम्बुजम् । नमस्कर्तुं तन्निवासिश्रियमादित्सवः किल ॥१ श्रीविजयसेनभूपप्रमुखाः पुरुषोत्तमाः । पञ्चापि जग्मुरुद्यानं निधानं सौरभश्रियः ॥२॥ युग्मम् नमस्कृत्य यथास्थानं निषद्य च गुरोः पुरः । राजा कोशीकृतकरो धतुं श्रेयोनिधिं किल ॥३ व्यज्ञापयत् प्रभो ज्ञाननिधान ज्ञापयाधुना । लोभस्य परिग्रहश्रीपत्नीकस्य स्वलक्षणम् ॥४॥ युग्मम् भगवानुक्तवान् राजन् सावधानं निशामय । लोभोऽभिलाषः काङ्क्षा च मूच्छेच्छेति समार्थिकाः ॥५ सर्वे कषाया भवौकःस्तम्भा एष विशेषतः । लोभमूलाः परे प्रायो नालुब्धस्य क्रुधादयः ॥६ कदाचिदेव कस्यापि गीर्मनोवत् क्रुधादयः । अयं तु कायवद् राजन् सर्वेषामपि सर्वदा ॥७ पितैष सर्वदोषाणां गुणगुणां दवानलः । विपल्लतानां वसन्तो लोभः सर्वैनसां खनिः ॥८ प्रीतेविनाशकः क्रोधो मानो विनयनाशकः । मित्राणां नाशिका माया लोभः सर्वविनाशकः ॥९ स्वयम्भूरमणस्यापि पारं प्राप्येत केनचित् । लोभाम्भोधेः पुन व गीर्वाणप्रभुणाऽपि हि ॥१० यथा यथा भवेल्लाभः स्फायतेऽसौ तथा तथा । सहोदरत्वं तन्मन्ये वडवानललोभयोः ॥११ न चक्रिणो न शक्रस्य लुब्धस्य सुखसम्भवः ।
तदेतयोः सहस्थानं न च्छायातपयोरिव ॥१२ Lila.-17
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org