________________
१२८
लीलावतीसारे
[३३५-३३९ मन्त्र्यवोचत् तदस्माभिर्देयमेतस्य नास्पदम् । युष्माभिरपि तेषां न व्यवस्थेयं सुनिश्चिता ॥३३५ अरिकेसरिणाऽथैष विसृष्टः क्लिष्टचेष्टितः । राज्यान्तरेऽपि न प्राप स्थिति सृङ्गितुरङ्गवत् ॥३३६ परीवारविनिर्मुक्तोऽसिवन्निनष्टवैभवः ।
एकाकी वज्रसिंहोऽयमत्रागच्छन्महीपते ॥३३७ इति गुरुगिरमुच्चैः सम्यगालोच्य मूर्छाकपटत इव किञ्चिद् ध्यानधाराधिरोहात् । सपदि समुपजातोदात्तजातिस्मृतिश्रीरवितथमिति सर्व सूरिराजो निवेद्य ॥३३८ वृजिनजलधितोऽस्मादुद्धर स्राक् प्रभो मा
मिति भणितितरङ्गांस्तुङ्गयन् वजसिंहः । अधृत चरणभारं रामदेव क्रमेण
व्रतितिलकसुधर्मस्वामिनः पादमूले ॥३३९॥ युग्मम
इति श्रीनिर्वाणलीलावतीमहाकथेतिवृत्तोद्धारे लीलावतीसारे जिनाके मोहाब्रह्मसेवाद्वन्द्व-विपाक-व्यावर्णनो नाम पञ्चम उत्साहः * ॥
* छ ग्रं० ३५३ ॥ छ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org