________________
३२२-३३४ ] पञ्चम उत्साहः
१२७ सितातपत्रमालिकाबलाहिकाऽतिमालितम् महेभकुम्भपाटनप्रसक्तरक्तनिम्नगम्
॥३२२ कबन्धनीलकण्ठकप्रबन्धबद्धताण्डवम् घनाघनागमोपमं बभूव युद्धमुद्धतम् ॥३२३॥
षभिः कुलकम् अकालप्रावृषमिव समरं वीक्ष्य दुस्तरम् । कांदिशीकमनाः सोऽभूत् कुमारो मारकिङ्करः ॥३२४ ततोऽवरुह्य स गजाज्जयादिव वपुष्मतः । आरुह्य तुरगं वायुवेगं वेगादपैत् श्ववत् ॥३२५ स चात्यासन्नसीमानमरिकेसरिणं नृपम् । संश्रित्योचे पितृराज्यमर्धार्धन विभज्यते ॥३२६ चेन्मे सान्निध्यमाधत्से तेन च प्रतिशुश्रुवे । देशभङ्गादिनारम्भि विग्रहो जितशत्रुणा ॥३२७॥ युग्मम् ततश्च नीतिकुशलो दूतः प्रेष्यत भू भुजा । स चारिकेसरिपुरः ससौष्ठवमदोऽवदत् ॥३२८ राजन्नद्यैव नः स्वामी किं कुमारगिरा श्रुतः । राज्यार्धे एव नः किं वा न संपूर्णे तव स्पृहा(!) ॥३२९ किञ्च -- विग्रहे क्षीयते कोशश्चतुरङ्गा चमूरपि । जयलक्ष्मीर्जीवितं च संशीतिमधिरोहति ॥३३० तच्चेज्जीयति ते जग्धं चेन्मन्त्री वाऽस्ति नीतिवित् । तत् कुमारममुं मुञ्च सिञ्च सौहार्दपादपम् ॥३३१ नाद्यापि किञ्चिद् विनष्टमथ ते विग्रहे ग्रहः । तन्मुक्त्वा भिल्लकर्मेदं ढौकेथाः संयते द्रतम् ॥३३२ प्रत्युवाचाथ तन्मन्त्री न वयं विग्रहेच्छवः । युष्मत्कुमार एवायं विजिघृक्षुस्तरुक्षुवत् ॥३३३ दूतोऽब्रत पुनर्मन्त्रिन् न किञ्चिदिदमुत्तरम् । भीमाद्या वोऽपि दायादास्तान् प्रभुः स्वीकरिष्यते ॥३३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org