SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १२६ लीलावतीसारे रुषा देव्यवदत् तत् स मार्यतां मन्त्रिणो जगुः । न देवि देववंशेऽदः कृतपूर्वं हि केनचित् ॥ ३०९ तद्युक्तं भणतेत्युक्ते राज्ञा ते तु व्यजिज्ञपन् । स काष्ठपञ्जरे रक्ष्यो देव्यस्तु प्रतिचारिका ॥ ३१० इत्याकर्ण्य हता देव्या धृष्टेऽवष्टम्भसे किमु । दासी कुमारदूत्येऽस्मि शिष्टेति चतुराऽबुधत् ॥ ३११ ततोऽतिवेगतो गत्वा रुदती सर्वमप्यदः । सा जगौ वज्रसिंहस्य सिंहस्य क्रूरकर्मणः ॥३१२ सद्यः कुमारः सामर्षः परिवारपरिष्कृतः । अतत्त्ववेदिना यन्त्राऽसज्जयज्जयकुञ्जरम् ॥३१३ अन्यस्यां हस्तिमण्डल्यां श्रीगृहेऽन्तःपुरे पुरे । न्यवेशयत् स्वपुरुषान् सत्यंकारानिर्वषकः ॥३१४ अथोदभूत् कलकलो विश्वविश्वोदरंभरिः । जितशत्रु नृपस्वान्तविश्रान्तोत्साहयोधकृत् ॥३१५ चरैर्ज्ञात्वाऽथ तन्मूलं सामन्तानीकपान्नृपः । सत्वरं त्वरयामास तेन योद्धुं दुरात्मना ॥ ३१६ पुरीपरिसरेऽथाभूदुभयोरपि सैन्ययोः । विन्ध्याटव्यामिव करियूथयोर्दारुणो रणः ॥३१७ तथाि Jain Education International -- समुच्छलद्रजो भरावतीर्णमेघडम्बरम् प्रमुक्तबाणधोरणी प्रवृष्टिनष्टकातरम् विदूरतो मरक्षतास्रबिन्दु केन्द्रगोपकम् शितास्त्रका न्तिसंहतिप्रनर्तिताचिरप्रभम् प्रवादितातिभीषणा हवीयतूर्यगर्जितम् मतङ्गगण्डमण्डलीगलन्मदाम्बुपक्किलम् रथारिभिर्मती(?)कृताश्वपत्तिसङ्कटावनिविकीर्ण केतुसन्ततिद्विजिह्वविह्वलाङ्गणम् ३१८.१. वतीर्णे. For Private & Personal Use Only 1 ॥३१८ 1 ॥३१९ 1 ॥३२० 1 ॥३२१ [ ३०९-३२१ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy