________________
२९५-३०८ ]
Jain Education International
पश्चम उत्साहः
S
राजपार्श्वमथायाता देव्युवाच सुतोदितम् । मन्त्र्यास्यमैक्षत क्ष्मेशस्ते तु तूष्णीं प्रपेदिरे ॥ २९५ राजाऽवदत् तर्हि यामोऽथामात्यो बुद्धिसागरः । सहसाऽक्षौन्नसि न्यस्य लीलाकमलपल्लवम् ॥२९६ ततः सुबुद्धिर्मन्त्र्यूचे न देव शकुनं शुभम् । अमात्योऽप्यभ्यधाद्याति शकटं न गवान्तिके ॥ २९७ तदेकाकी स एवात्राकार्यतां तस्य चागमे । उत्थास्यामो वयं सद्यस्तच्च देव्यै नृपोऽलपत् ॥ २९८ देव्याख्यन्नेत्यसौ को वा दोषोऽस्य रलिकाकृतौ । पादोऽवधार्यतां देव शकुनं किमियत्यपि ॥ २९९ मन्त्र्यूचे व्याकीर्णेऽप्यरण्ये सुशकुनैर्वजेत् । दुः शकुनैः पुनर्देव स्वगृहाभ्यन्तरेऽपि न ॥३०० किञ्च गम्यं देवपादैर्नाधुना तत्र सर्वथा । नान्यायिनां हि विश्वस्याद् विशेषादिति वादिनाम् ॥३०१ यद्वोच्यतां वेत्रिणाऽसौ स्वगृहं विजनीकुरु । चेत् कुर्यान्न तदा दोषो न कुर्याच्चेत् तदाऽन्यथा ॥ ३०२ बहुमत्येति नृपतिर्वेत्रिणा तं तदभ्यधात् । स बहिर्विजनं चक्रे गृहान्तस्तस्य नैक्षयत् ॥ ३०३ मोहेनाब्रह्मणा चात्रान्तरे कवचितोऽधिकम् । स ऊचे चास्मि नायत्तः पत्युर्दिविषदामपि ॥ ३०४ राजाऽऽगच्छतु वा मा वा न मुञ्चे विमलस्त्रियः । यच्छक्षितं तत् करोतु कारयत्वविशङ्कितम् ॥ ३०५ वेत्री तदाचष्ट राज्ञोऽमात्याः प्रोचुः किमद्भुतम् । सर्वसस्यान्युर्वरायां तत्र सर्वे गुणाः खलु ॥३०६ किमत्रोचितमित्युक्ते राज्ञा व्यज्ञापयन्नमी । राज्येऽभिषिच्यामुं देवे व्रतस्थेऽपि न मुख्यसौ ॥३०७
यतः
--
सोऽन्यायकृद्राज्यधुरां न वोढुं गलिवत् क्षमः । चेन्निर्विषयश्चरटत्वं भजेत् तदा ॥ ३०८
क्रियेत
For Private & Personal Use Only
१२५
www.jainelibrary.org